निदर्शना, स्त्री, (निदर्शयतीति । नि + दृश् + णिच् + ल्युः । टाप् ।) काव्यालङ्कारविशेषः । तस्य लक्षणम् । “अर्थान्तरप्रवृत्तेन किञ्चित्तत्सदृशं फलम् । सदसत्त्वान्निदर्श्येत यदि सा स्यान्निदर्शना ॥” उदाहरणं यथा, दण्डी । “उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयितुमृद्धीनां फलं मुहृदनुग्रहम् ॥” (यथा च साहित्यदर्पणे । १० । ७० । “सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् । यत्र विम्बानुविम्बत्वं वोधयेत् सा निदर्शना ॥ अत्र सम्भवद्बस्तुसम्बन्धनिदर्शना । यथा, -- ‘कोऽत्र भूमिबलये जनान् मुधा तापयन् मुचिरमेति सम्पदम् । वेदयन्निति दिनेन भानुभा- नाममाद चरमाचलं ततः ॥’ अत्र रवेरीदृशार्थवेदनक्रियायां कर्त्तृत्वेनान्वयः सम्भतत्येव देदृशायंजाओअबसनर्त्गरमाचसप्राप्ति- [] रूपधर्म्मवत्त्वात् । स च रवेरस्ताचलगमनस्य परतापिनां विपत्प्राप्तेश्च विम्बप्रतिविम्बभावं बोधयति । असम्भवद्वस्तुसम्बन्धनिदर्शना त्वेक- वाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगा यथा, -- ‘कलयति कुवलयमाला- ललितं कुटिलः कटाक्षविज्ञेपः । अधरः किसलयलीला- माननमस्याः कलानिधेर्व्विलासम् ॥’ अत्रान्यस्य धर्म्मं कथमन्यो वहत्विति कटाक्ष- विक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवत् तल्ललितादिसदृशं ललितादिक- मवगमयत् कटाक्षविक्षेपादेः कुवलयमालादेश्च विम्बप्रतिविम्बभावं बोधयति । यथा वा । ‘प्रयाणे तव राजेन्द्र ! मुक्ता वैरीमृगीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः ॥’ अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागो- ऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते । स चासम्भवन् राजहंसगतिमिव गतिं बोधयति । अनेकवाक्यगा यथा, -- ‘इदं किलाव्याजमनोहरं वपु- स्तपः क्षमं साधयितुं य इच्छति । ध्रुवं स नीनोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥’ अत्र यत्तच्छब्दनिर्द्दिष्टवाक्यार्थयोरभेदेनान्वयो- ऽनुपपद्यमानस्तादृशवपुषस्तपः क्षमत्वसाधनेच्छा नीलोत्पलपत्रधारया शमीलताछेदनेच्छेवेति विम्बप्रतिविम्बभावे पर्य्यवस्यति । यथा वा । ‘जन्मेदं बन्ध्यतां नीतं भवभोगोपलिप्सया । काचमूल्येन विक्रीतो हन्त चिन्तामणिर्म्मया ॥’ अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्य्यव- सानम् । एवम् । ‘क्व सूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥’ अत्र मन्मत्या सूर्य्यवंशवर्णनमुडुपेन सागर- तरणमिवेति पर्य्यवसानम् । इयं क्वचिदुपमेय- वृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा, -- ‘योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे । समास्वादि स मृद्वीकारसे रसविशारदैः ॥’ अत्र प्रकृतस्याधरस्य मधुरिमधर्म्मस्य द्राक्षा- रसेऽसम्भवात् । पूर्व्ववत् साम्ये पर्य्यवसानम् । मालारूपापि यथा मम । ‘क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने ॥’ इह विम्बप्रतिविम्बताक्षेपं विना वाक्यार्थापर्य्य- वसानम् । दृष्टान्ते तु पर्य्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् । नापीय- मर्थापत्तिस्तत्र ‘हारोऽयं हरिणाक्षीणाम् ।’ इत्यादौ सादृश्यपर्य्यवसानाभावात् ॥)
📄 मूल मुद्रित पृष्ठ (2-880-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।