निरतिशय पु० निर्गतोऽतिशयो यस्मात् नितरामतिशयो वा । १ अत्यन्तातिशये २ स्वापेक्षयातिशयशून्ये ३ परमेश्वरे [] यदपेक्षया कस्याप्यतिशयाभावः ४ तस्मिन् त्रि० । “तत्र निरतिशयं सार्वज्ञ्यवीजम्” पात० सू० “यदिदमतीता- नामतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सार्वज्ञ्यवीजमेतद्विवर्द्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सार्वज्ञ्यवीजस्य सातिशयत्वात् परिमाणवदिति यत्र काष्टाप्राप्तिर्ज्ञानस्य स सर्वज्ञः स च पुरुषविशेषः” भा० “व्याचष्टे यदिदमिति । बुद्धिस- त्वावरकतमोऽपगमतारतम्येन यदिदमतीतानागतप्रत्यु- त्पन्नानां प्रत्येकञ्च समुच्चयेन च वर्त्तमानानामतीन्द्रि- याणां ग्रहणं तस्य विशेषणमल्पं बह्विति सार्वज्ञ्यवीजं कारणम् । कश्चित् किञ्चिदेवातीतादि गृह्णाति कश्चिद् बहुतरं कश्चिद्बहुतमम् एतद्विवर्द्धमानं यत्र निष्क्रा- न्तमतिशयात् स सर्वज्ञ इति तदनेन प्रमेयमात्रं कथि- तम् । अत्र प्रभाणयात अस्ति काष्ठा प्राप्तिः सार्वज्ञ्य- वीजस्येति साध्यनिर्देशः निरतिशयकाष्ठा यतः पर- मतिशयवत्ता नास्तीति । तेन नावधिमात्रेण सिद्धसा- धनं, सातिशयत्वादिति हेतुः । यत् सातिशयं तत् तत्सर्वं निरतिशयं यथा कुवलामलकविल्वेषु सातिशय- मिति । व्याप्तिं दर्शयति परिमाणवत् । न च गरिमा- दिगुणैर्व्यभिचार इति साम्प्रतम्, न स्वल्वऽवयवगरि- मावयविनः किन्त्वा, परमाणुभ्य अन्त्यावयविभ्यो यावन्तः केचन तेषा प्रत्येकं वर्त्तिनं गरिमाणं समा- हृत्य गरिमवर्द्धमानताभिमानः ज्ञानन्तु प्रतिज्ञेयं समाप्यते इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः” विवरणम् ।
📄 मूल मुद्रित पृष्ठ (4083-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।