🕉️ 24 November 2026, Tuesday · 11:58:07 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

निरृति
nirṛti
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
दरिद्रता/अशुभता (1.9.2) अलक्ष्मी
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
निर्-˚ऋति f. (निर्-) dissolution, destruction, calamity, evil, adversity, RV. &c. &c. (personified as the goddess of death and corruption and often associated with Mṛtyu, A-rāti &c., RV.; AV.; VS.; variously regarded as the wife of A-dharma, mother of Bhaya, Mahā-bhaya and Mṛtyu [MBh.] or as a daughter of A-dharma and Hiṃsā and mother of Naraka and Bhaya [MārkP.]; binds mortals with her cords, AV.; Br. &c.; is regent of the south [AV.] and of the asterism Mūla [Var.])
the bottom or lower depths of the earth (as the seat of putrefaction), AV.; VS.; ŚBr.
निर्-˚ऋति m. death or the genius of death, BhP.
N. of a Rudra, MBh.; Hariv.; Pur.
of one of the 8 Vasus, Hariv. (v.l. नि-कृति)
📄 मूल मुद्रित पृष्ठ (554,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
निरृतिः f. 1 Decay, destruction, dissolution. --2 A calamity, evil, bane, adversity; सा हि लोकस्य निरृतिः U. 5. 30. --3 An imprecation, a curse. --4 Death or destruction personified, the goddess of death or destruction, the regent of the southwestern quarter; Ms. 11. 119. --5 The bottom of the earth.
📄 मूल मुद्रित पृष्ठ (0632-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
निऋ(रृ)ति पु० नियता ऋतिर्घृणा यत्र प्रा० व० रमध्यो वा । १ दक्षिणपश्चिमविदिक्पतौ । “मृगव्याधश्च सर्पश्च निरृतिश्च महायशाः” भा० आ० ६६ अ० । २ अलक्ष्म्याम् स्त्री ३ निरु- पद्रवे त्रि० । ४ अधर्मस्य भार्य्यायां स्त्री “अधर्सस्तत्र संजातः सर्वशुभविनाशकः । तस्यापि निरृतिर्भार्य्या नैरृता येन राक्षसाः” भा० आ० ६६ अ० । ५ अधर्मस्य कन्यायाञ्च स्त्री “हिंसा भार्य्या त्वधर्मस्य तस्यां जज्ञे तथाऽनृतम् । कम्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्” मार्क- ण्डेयपु० ५ अ० । ६ मृत्युभार्य्यायाम् । “निरृतिश्च तथा चान्या मृत्योर्भार्य्याऽभवनुमुने!” तत्रैवाध्याये । अलक्ष्मीश्च लक्ष्म्या ज्येष्ठा भगिनी अश्वत्थशब्दे ५०६ पृ० दृश्यम् । ७ मूलानक्षत्रे तस्य तद्देवताकत्वात् तथात्वम् । निरृतिर्लोकपालश्च पिङ्गाक्षव्याधः कार्पटिकादीनां रक्षर्थं यतमानस्ताराक्षण तत्पितृव्येन धातितः मरणकाले तेषामाधिपत्यं लभेयमितीच्छया प्राणविमोच- नात् तदीशतामाप तत्कथा काशीख० १२ अ० यथा “असू- दयिष्यमेतांस्तदभविष्यं यदीश्वरः । अभिलव्योन्नतिं प्राणानत्याक्षीत् स परार्थतः । या मतिस्त्वन्तकाले स्याद्गतिस्तदनुरूपतः । दिगीशत्वमतः प्राप्तो नैरृत्यां नैरृतेश्वरः” इति । एतल्लोकप्राप्तिकारणादिकं तत्रैव यथा “दिक्पतेनैरृतस्यासौ पुण्यापुण्यजनोषिता । राक्षसा निवसन्त्यस्यामपरद्रोहिणः सदा । जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे । अत्यक्तश्रुतिवर्त्मानो जाता वर्णा वरेष्यपि । नाद्रियन्तेऽन्नपानानामस्मृत्युक्तं कदाचन । परदारपरद्रव्यपरद्रोहपराङ्मुखाः । जाता जातौ निकुष्टायामपि पुण्यानुसारिणः । द्विजातिभक्त्युत्पन्ना- न्नैरात्मानं पोषयन्ति ये । सदा सङ्कुचिताङ्गाश्च द्विजस- म्भाषणादिशु । आहूता हृष्टवदना वदन्ति द्विजसन्निधौ । जय जीव भगोनाथ स्वामिन्निति हि वादिनः । तीर्थ स्नानपरानित्यं नित्यदेवपरायणाः । द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम् । दमदानदयाक्षान्तिशौ- चेन्द्रियविनिग्रहाः । अस्तेयसत्याऽहिंसाश्च सर्वेषां धर्महेतवः । नवस्वेषु सदोद्युक्ता ये जातायत्र कुत्रचित् । सर्वभोगसमृद्धास्ते वसन्त्यत्र पुरोत्तमे । म्लेच्छा अपि मुतीर्थेषु ये मृता नात्मघातकाः । विहाय काशीं निर्वाण विश्राणान्तेऽत्र भोमिनः । अन्धन्तमो विशेयुस्ते ये चैवा- त्यहनो जनाः । भुक्त्वा निरयसाहस्रं ते च स्युर्ग्राम- श्रूकराः । आत्मथातो न कर्त्तव्यस्तस्मात् क्वापि विप- [] श्चिता । इहापि च परत्रापि न शुभान्यात्मधातिनाम् । यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः । प्रयागे सर्वती- र्थानां राज्ञि सर्वाभिलाषदे । अन्त्यजा अपि ये केचि- द्दयाधर्मानुसारिणः । परोपकृतिनिष्ठास्ते वसन्त्यत्र तु सत्तमाः । अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु । मध्येविन्धाटवि पुरा पक्वणस्य जनाग्रणीः । पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः । निर्विन्ध्याया- स्तटे शूरः क्रूरकर्मपराङ्मुखः” ।
📄 मूल मुद्रित पृष्ठ (4090-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
निरृतिः, स्त्री, (निर्नियता ऋतिर्घृणा अशुभं वा यत्र ।) अलक्ष्मीः । इत्यमरः । १ । ८ । २ ॥ (यथा, महाभारते । १ । ८७ । ९ । “अरुन्तुदं परुषं तीक्ष्णवाचं वाक्कण्टकैर्व्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां सुखे निबद्धां निरृतिं वहन्तम् ॥”) अस्या उपाख्यानं यथा, -- “समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः । श्रेष्ठञ्च कौस्तुभं तेषु विष्णवे प्रददुः सुराः ॥ यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः । तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ॥ लक्ष्मीरुवाच । असंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते । तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ! ॥ विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः । [] तस्माद्धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन ! ॥ सूत उवाच । इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः । उद्दालकाय मुनये मुदीर्घतपसे तदा । आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ॥ स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् । स्रवदारक्तनयनां रूक्षपिङ्गशिरोरुहाम् ॥ स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् । वेदध्वनिसमायुक्तमानयामास धर्म्मवित् ॥ होमधूपसुगन्धाढ्यं वेदघोषेण नादितम् । आश्रमं तं विलोक्याथ व्यथिता साब्रवीदिदम् ॥ ज्येष्ठोवाच । नहि वासानुरूपोऽयं वेदध्वनियुतो मम । नात्रागमिष्ये भो ब्रह्मन् ! नयस्वान्यत्र मां ध्रुवम् ॥ उद्दालक उवाच । कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव । तव योग्या च वसतिः का भवेत् तद्वदस्व माम् ॥ ज्येष्ठोवाच । वेदध्वनिर्भवेद्यस्मिन्नतिथीनाञ्च पूजनम् । यज्ञदानादिकं यत्र नैव तत्र वसाम्यहम् ॥ परस्परानुरागेण दाम्पत्यं यत्र विद्यते । पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम् ॥ दानशौचे न विद्येते परद्रव्यापहारिणः । परदाररता यत्र तत्र स्थाने रतिर्म्मम ॥ वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् । निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहम् ॥ सूत उवाच । इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत् । उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह ॥ उद्दालक उवाच । अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि श्रम्यतां क्षणम् । आश्रमस्थानमालोक्य यावदायाम्यहं पुनः ॥ सूत उवाच । इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः । प्रतीक्षन्ती चिरं तत्र यदा तं न ददर्श सा ॥ तदा रुरोद करुणं भर्त्तुस्त्यागेन दुःखिता । तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ॥ तदा विज्ञापयामास विष्णुमुद्बिग्नमानसा ॥ लक्ष्मीरुवाच । स्वामिन्मद्भगिनी ज्येष्ठा स्वामित्यागेन दुःखिता । तामाश्वासयितुं याहि कृपालो ! यद्यहं प्रिया ॥ सूत उवाच । लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः । आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत् ॥ विष्णुरुवाच । अश्वत्थवृक्षमासाद्य सदालक्ष्मीः स्थिरा भव । ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥ मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति । अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल ॥ प्रत्यब्दमर्च्चयिष्यन्ति तां ज्येष्ठां गृहधर्म्मिणः । तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया ॥” इति पाद्मोत्तरखण्डे १६१ अध्यायः ॥ [] (पापदेवता । यथा, ऋग्वेदे । १० । १६५ । १ । “दूतो निरृत्या इदमाजगाम ।” “निरृत्याः पापदेवताया दूतोऽनुचरः ।” इति तद्भाष्ये सायङः ॥)
निरृतिः, त्रि, (निर्गता ऋतिरशुभं यस्मात् ।) निरुपद्रवः । इति धरणिः ॥ दिक्पालविशेषे, पुं । इति मेदिनी । ते, ११६ ॥ स तु नैरृत- कोणाधिपतिः । तस्य विवरणं यथा, -- “पूर्व्वस्यान्तु सुकान्तस्य रक्षकूटाह्वयो गिरिः । यत्रास्ते सततं देवो निरृती राक्षसेश्वरः ॥ खड्गहस्तो महाकायो वामे चर्म्मधरस्तथा । जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः ॥ द्विभुजः कृष्णवस्त्रस्तु गर्द्दभ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬