नि(नी)वार पु० नि + वृ--“नौ वृ० धान्ये” कर्मणि घञ् वा दीर्घः । नीवाराख्ये धान्यभेदे । नीवाञ्जलिनाऽपि केवलमहो सेयं कृतार्था तनुः” सा० द० । निवारयति पापानि नि + वारि अच् बा० दीर्घः । दीर्घयुक्तः नदीभेदे स्त्री “नीवारां महितां चापि सुप्रयोगां जनाधिप!” भा० भी० ९ अ० ।
नीवार पु० नि + वृ--घञ् दीर्घः । तृणधान्यभेदे “नीवार- साकादिकडङ्गरीयैः” “अपत्यैरिव नीवारभागधेयोचितै- र्मृगैः” रघुः “नीवारफलमूलाशानृपीनप्यति शेरते” भट्टिः । स च कुधान्यं यथोक्तं सुश्रुते “कोर- दूषकश्यामाकनीवारसान्तनुतुवरकोद्दालकपियङ्गुमधूलिका नान्दीमुखीकुरुविन्दगवेधुकावरुकतोदपर्णीनुकुन्दकरेणु यवप्रभृतयः कुधान्यविक्षेषाः । उष्णाः कषायमधुरा- सूच्चाः कटुविपाकिनः । श्लेष्मन्ना बद्धनिष्यन्दावातपि- त्तप्रकोपणाः । कवायमधुरास्तेषां शीतपित्तापहाः स्मृताः । नीवारः शोतत्वोयाही पित्तक्षुत्कफवातकृत्” भावप्र० । स्वार्थे क । तत्रार्के “नीवारकादयो श्रुद्धादयश्च समासेन कषायोवर्गः” सुश्रु० ।
📄 मूल मुद्रित पृष्ठ (4108,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।