नृपशासन न० ६ त० । राजशासने तत्प्रकारः औशनस- नीतिसरिशिष्टे १ अ० उक्तो यथा “शासनं कीदृशं कार्यं राज्ञा नित्यं प्रजासु च । दासे भृत्येषु भार्य्यायां पुत्रे क्षिष्येऽपि वा कचित् । वाग्- दण्डं परुषं नैव कार्यं तद्देशसंस्थिते । तुलाशासन षानानां नाणकस्यापि वा क्वचित् । निर्य्यामानां च धा- तूनां सजातीनां घृतस्य च । मृदुदग्धवसातैलपिष्टादीनाञ्च सर्वदा । कूटं नैव तु कार्यं स्यात् बलाच्च निर्मितं जनैः । उत्कोचग्रहणं नैव स्वामिकार्यविल्वोपनम् । दुर्वृत्तका० रिष्णं चोरं जारं सद्द्वेषिणं द्विषम् । नरचन्त्वप्रकाशं हि तथान्यानपकारकान् । मातॄणां पितॄणां चैव पू- ज्यानां विदुषामपि । नायमानं गोपहासं न कुर्युः पितृपुत्रयोः । वापीकूपारामसीमाघर्मशातासुराल- यान् । मार्गान्नैव प्रनाधेयुर्दीनान्धविकलाङ्गकान् । द्यू- तञ्च मद्यपानञ्च नृगयां शस्त्रधारणम् । गोगजाश्वोष्ट्र- लहिमीमृणां च स्थावरस्य च । रजतस्वर्णरत्नानां माद- कस्य विषस्य च । क्रयं वा विक्रपं वापि मद्यसन्धान- मेव च । क्रवपत्रं दानपत्रमृणनिर्णयपत्रकम् । राजा- ज्ञया विना नैव जनैः कार्यं चिकित्सितम् । महापा- पाभिशमनं निधिग्रहणमेव स । न या समाजनियम्” [] निर्णयं जातिदूषणम् । अस्वामिनाष्टिकधनसंग्रहमन्त्र भेदतः । नृपतेर्गुणलोपञ्च नैव कुर्युः कदाचन । स्वचर्म हानिमनृतं परदाराभिमर्शनम् । कूटसाक्ष्यं कूटलेख्य- भप्रकाशप्रतिग्रहम् । निर्द्धारितकराधिक्यं स्तेयं साहसमेव च । मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च । भृत्या शुल्केन भागेन वृड्या दर्पात्जलात् छलात् । आधर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा । परिमाणोन्मान मानं धार्यं नृपविमुद्रितम् । गुणसाधनसंदक्षा भवन्तु निखिला जनाः । साहसाधिकृतो न स्युर्विना चैवातता- यिनम् । उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्य्याः सुयन्त्रिताः । इति मच्छाशनं श्रुत्वा येऽन्यथा वर्त्तयन्ति तान् । नाशयि- षत्रानि दण्डेन महता पापकारकान् । इति प्रबोधये- न्नित्यं प्रजाशासनडिण्डिमैः । लिखित्वा शासनं राजा धारयेच्च चतुष्पथे । तथा चोद्यतदण्डः स्यादसा- धुषु च शत्रुषु” ।
📄 मूल मुद्रित पृष्ठ (4141-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।