🕉️ 20 November 2026, Friday · 06:58:52 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नृपसभा
nṛpasabhā
🟠 शब्दसागर🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नृपसभा संज्ञा स्त्री॰ [सं॰] राजसभा । राजा का दरबार [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नृपसभ(भा) न० स्त्री नृपाणां सभा “राजामनुष्यपूर्य्येति” पा० राजपर्य्यायग्रहणात् क्रीवत्वम् । बहूनां नृपाणां सभायाम् । एकस्य सभायां तु स्त्री । तत्सभाप्रकारश्च औशनसनीतिपरिशिष्टे १ अ० उक्तो यथा “राज्ञा राजसभा कार्य्या सुगुप्ता च मनोरमा । त्रि- कौष्ठैः पञ्चकीष्ठैर्वा सप्तकोष्ठैः सुविस्तृता । दक्षिणोदक् तथा दीर्धा प्राक प्रत्यग द्विगुणाऽथ वा । त्रिगुणा वा यथाकाममेकभूमिर्द्विभूमिका । त्रिभूमिका वा कर्त्तव्या सोपकार्य्याशिरोगृहा । परितः परिकोष्ठेषु वातायन विरास्त्रिता । पार्श्वकोष्ठात्तु द्विगुणा मध्यकोष्ठेषु वि- स्तृता । पञ्चमांशाधिकं त्वौच्च्यं मध्यकोष्ठस्य विस्तरात् । विस्तारेण समं त्वौच्चत्रं पञ्चमांशाधिकं तु वा । कोष्ठ- कानां च भूमिं च यदि वा तत्र कारयेत् । द्विभूमिके पार्श्वकोष्ठे मध्यमं त्वेकभूमिकम् । पृथक्स्तम्भा तु सत् कोष्ठा चतुर्मार्गानमा शुभा । जलोद्वारादियन्त्रैश्च युता सुखरयन्त्रकैः । वातप्रेरकयन्त्रैश्च यन्त्रौ कालप्रयो- धकैः । प्रतिष्टिता च सादर्शैस्तथा च प्रतिरूपकैः । एवंविधा राजसभा यन्त्रार्था कार्यदर्शने । तथाविधा- मात्यसेख्यश्चभ्याधिकृतशालिकाः । कर्चव्याः प्रागुदक् चितास्तदर्थाश्च पृथक् वृषक् । शतहस्तमिर्ता भूमिं [] त्यक्ता राजगृहात् सदा । उदक् द्विशतहस्ता प्राक् सेना सन्निवेशनार्थिका । आराद्राजगृहस्यैव प्रजानां निल- यानि च । सधनिश्रेष्ठिकाननुक्रभतश्च सदा ततः । सम- न्ताच्च चतुर्दिक्षु विन्यसेच्च ततःपरम् । प्रकृत्यनुप्रकृतयो ह्याधिकारिगणस्ततः । सेनाधिपपदातीनां गणः सादि गणस्ततः । साश्वश्च सगजश्चापि गजपालगणस्ततः । वृहन्नालिकयन्त्राणि ततः सत्वरगोगणः । ततः खगो- ल्मिकगणो ह्यारण्यकगणस्ततः । क्रमादेषां गृहाणि स्युः शोभनानि परे सदा । पान्थशाला ततः कार्य्या सुगुप्ता सजलाशया । सजातीयगृहाणां च समुदायेन पङ्क्तितः । निवेशने पुरे ग्रामे प्रागुदक् सुखमेधते । सजातिपण्यनिवहैरापणे पण्यवेशनम् । धनिकादिक्रमे- णैव राजमार्गस्य पार्श्वतः । एवं हि पत्तनं कुर्य्यात् प्रभं चैव नराधिपः” । तदधिवेशनप्रकारः तत्रैव “सभायां प्रत्यगर्द्धस्य मध्ये राजासनं भवेत् । दक्षसंस्था वाम- संस्थाः विशेयुः पार्श्वपृष्ठगाः । पुत्राः पौत्राः भ्रातरश्च भागिनेयाश्च पृष्ठतः । दौहित्रा दक्षभागास्तु वामसं- स्थाः क्रमादिमे । पितृव्याः स्वकुलश्रेष्ठाः सभ्याः सेनाधि- पास्तया । स्वाग्रे दक्षिणभागे तु प्राक्संस्थाः पृथना- सनाः । मातामहकुलश्रेष्ठा मन्त्रिणो कान्धवास्तथा । श्वशुराश्चैव श्यालाश्च वामाशे चाधिकारिणः । वाम- दक्षिणपार्श्वस्थो जामाता भगिनीपतिः । स्वसदृशस- मीपे वा स्वार्द्धासनगतः सुहृत् । दौहित्रभागिनेयानां स्थाने स्युर्दत्तकादयः । भागिनेयाश्च दौहित्राः पुत्रादिस्थानसंस्थिताः । यथा पिता तथार्चायां समः श्रेष्ठासने स्थितः । पार्श्वयोरग्रतः सर्वे सेवका मन्त्रिण- स्तथा । परिवारगणाः सर्वेः सर्वेभ्यः पृष्ठसंस्थिताः । स्वर्णदण्डघरौ स्यातां प्रवेशननिवेदकौ । विशिष्टचिह्नधृक् राजा स्वासने प्रवसेत् स्वके । सुभूषणः सुवसनः कवची मुकुटान्वितः । स्निग्धास्त्रलग्नशस्त्रस्तु सावधानः मनाः सदा” ।
📄 मूल मुद्रित पृष्ठ (4142-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें