पङ्क्तिदूष(क) पु० पङ्क्तिम एकपङ्क्तिं भोजने दूषयति दूषि--अण् ण्वुल् वा उप० स० । अपाङ्क्तेये अपकृष्ट- ब्राह्मणे स च अपाङ्क्तेयशब्दे २४३ पृ० उक्तः । अन्ये- ऽपि केचित् पाद्मे ३५ अ० उक्ता यथा “अपाङ्क्तेयास्तु ये राजन्! कीर्त्तयिष्यामि तान् शृणु । [] कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृती । ग्राम प्रेष्यो बार्धुषिको गायनः सर्वविक्रयो । अगारदाही गरदः कृण्डाशी सोमविक्रयी । सामुद्रिको राजदूत- स्तैलिकः कूटकारकः! पित्रा विवदमानश्च यस्य चोप- पतिर्गृहे । अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति । पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः । अव्रता- नामुपाध्यायः काण्डपृष्ठस्तथैव च । श्वभिश्च यः परि- क्रामेद्यः शुना दष्ट एव च । परिवित्तिस्तु यश्च स्याद्दु- श्चर्मा गुरुतल्पगः । कुशीलवो देवलको नक्षत्रैर्यश्च जी- वति । ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः । रक्षांसिभुञ्जते हव्यं यदेषान्तु प्रदीयते । श्राद्धे भुक्त्रा महाराज! दुश्चर्मा गुरुतल्पगः । श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते । सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप! भिषजे शोणितसमं नष्टं देवलके तथा । अप्रतिष्ठं बार्धुषिके निष्फलं परिकीर्त्तितम् । बहुवा- णिजके दत्तं नेह नामुत्र तद्भवेत् । भस्यनीव हुतं हव्यं तथा पौनर्भवे द्विजे । ये तु धर्मव्यपेतेषु चरि- त्रापगतेषु च । हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्ररि- णश्यति । ज्ञानपूर्वन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः । पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम् । एतान् विद्धि महाबाहो! अपाङ्क्तेयान् द्विजाधमान् । शूद्राणामुप- देशन्तु ये कुर्वन्त्यल्पबुद्धयः । षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति । पङ्क्त्यां समुपविष्टानां ता- वद्दूषयते नृप! । यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते द- क्षिणामुखः । सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदा- सुरम् । असूयया च यद्दत्तं यच्च श्रद्धादिवर्जितम् । सर्वं तदसुरेन्द्राय ब्रह्मा भागभकल्पयत् । श्वानञ्च पङ्क्ति- दूषञ्च नावेक्षेरन् कथञ्चन । तस्मात् परिवृते दद्यात्तिलां- श्चान्ने विकीरयेत् । तिलैर्विरहितं श्राद्धं कृतं क्रोध- वशेन च । यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः । अपाङ्क्त्यान् यावतः पङ्क्त्यां भुञ्जानो ननु पश्यति । तावत् फलाद्भंशयति दातारं तस्य वाऽनिशम्” ।
📄 मूल मुद्रित पृष्ठ (4180-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।