पञ्चतीर्थी, स्त्री, (पञ्चानां तीर्थानां समहारः । ङीप् ।) तीर्थपञ्चकम् । यथा । “विषुवद्दिवसे प्राप्ते पञ्चतीर्थीविधानतः ।” इति तिथितत्त्वम् । पञ्चतीर्थान्याह । (तानि च भिन्नदेशे भिन्न- रूपाणि, तत्र काशीस्थानि । यथा, काशीखण्डे । १०० । ३९ -- ४० । “ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्चयेत् । तारकेशं ततोऽभ्यर्च्य महाकालेश्वरं ततः ॥ ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिका ॥”) [] पुरुषोत्तमस्थानि यथा, -- “मार्कण्डेये वटे कृष्णे रौहिणेये महोदधौ । इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते ॥” इति तीर्थतत्त्वम् ॥ * ॥ अपि च । नाना- स्थानस्थानि यथा, -- “पृथिव्यां यानि तीर्थानि सर्व्वाण्येवाभिषेचनात् । तत्पञ्चतीर्थस्नानेन समं नास्त्यत्र संशयः ॥ एकादश्याञ्च विश्रान्तौ द्वादश्यां शौकरे तथा । त्रयोदश्यां नैमिषे च प्रयागे च चतुर्द्दशी ॥ कार्त्तिक्यां पुष्करे चैव कार्त्तिकस्य सितासिते । कालेष्वेषु नरः स्नात्वा सर्व्वं पापं व्यपोहति ॥” इति वराहपुराणम् ॥
📄 मूल मुद्रित पृष्ठ (3-008-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।