🕉️ 19 November 2026, Thursday · 07:53:12 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पंचमी
paṃcamī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पंचमी संज्ञा स्त्री॰ [सं॰ पञ्चमी]
१. शुक्ल या कृष्णपक्ष की पाँचवीं तिथि । विशेष—व्रत आदि के लिये चतुर्थीयुक्ता पंचमी तिथि ग्राह्य मानी गई है ।
२. द्रैपदी ।
३. एक रागिनी ।
४. व्याकरण में अपादान कारक ।
५. एक प्रकार की ईंट यो एक पुरुष की लंबाई के पाँचवें भाग के बराबर होती थी और यज्ञों में बेदी बनाने में काम आती थी ।
६. तंत्र में एक मंत्रविधि ।
७. एक प्रकार की बिसात जिसपर गोटियाँ खेलते थे (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पञ्चमी (ई), f., see below
पञ्चमी f. (of ˚म, q.v.) the fifth day of the half month (sc. तिथि), ŚrGṛS.; MBh. &c.
the 5th or ablative case (or its terminations), a word in the ablative, Pāṇ. ii, 1, 12 &c.
a termination of the imperative, Kāt.
(in music) a partic. Rāgiṇī or Mūrchanā
a brick having the length of 1/5 (of a Puruṣa), Śulb.
= पञ्चनी, L.
N. of Draupadī (who was the wife of 5; cf. पाञ्चालि), L.
of a river, MBh.; VP.
📄 मूल मुद्रित पृष्ठ (578,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पञ्चमी स्त्री पञ्च पतीन् मिनोति वध्नाति प्रेम्णा मी--वन्धे पिक्व् । पञ्चपाण्डवपतिकायां १ द्रौपद्र्याम् २ शारिशृङ्ख- लायाञ्च (पाशारछक) पञ्चन् + पूरणे मट् । पञ्चानां पूरण्यां स्त्री ङीप् । अस्य बहु० समासे समासवाच्यत्वे अच् समा० । कल्याणी पञ्चमी यासु रात्रिषु कल्याणपञ्चमा रात्रयः । मुख्यत्वाभावे कप् । कल्याणी पञ्चमी यत्र पक्षे कल्याणपञ्चमीकः पक्षः अत्र पूरण्या मुख्यत्वा- भावात् न समासवाच्यत्वम् । चन्द्रमण्डलस्य प्रवेश- निर्गमाभ्यां सूर्य्यकिरणप्रतिविम्बयोग्यत्वयोग्यत्वाभाव- युक्तायां चन्द्रस्य ४ पञ्चम्यां कलायां ५ तदुपलक्षित तिथौ च स्त्री । विहितकर्भविषयविशेषे तस्याः कथं ग्राह्यतेति कालमा० निर्णीतं यथा “युग्मशास्त्रेण पञ्चमी पूर्वविद्धा ग्राह्या । ननु “प्रायः प्रातरुपोष्या हि तिथिर्दैवे फलेप्सुभिरिति” शिवरहस्यसौ- रपुराणयोस्तिथ्यग्रभागस्योपवामाङ्गत्वाभिधानात् पञ्च- म्युपवामः परेद्युः प्राप्नीति, तन्न हारीतेन परविद्धायाः प्रतिषिद्धत्वात् । “चतुर्थीसंयुता कार्या पञ्चमी षरया न तु । दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते” इति । नचैतावता प्रायः प्रातरिति वचनस्य निर्विपयत्वं शङ्कनीयम् । निर्णीतासु निर्णेष्यमाणासु च तिथिषु [] यत्र यत्र परविद्धोपवासः शास्त्रान्तरेण प्राप्तस्तस्य स- र्वस्य तद्विषयोपपत्तेः । न च तेनैव शास्त्रेण तदुपवा- ससिद्धेः कृतमनेन वचनेनेति शङ्कनीयम् । सामान्य- विशेषरूपेण शास्त्रद्वयस्यापि चरितार्थत्वात् । तस्य सा- मान्यशास्त्ररूपस्य प्राप्तोपवासवचनस्य विरोधिना षष्ठी युक्तपञ्चमीनिषेधकेन विशेषशास्त्ररूपेण हारीतबचनेन बाधो युज्यते । एतादृश बाधमभिलक्ष्यैव प्रायः व्रात- रुपोष्येति प्रायःशब्दः प्रयुक्तः । प्रतिपन्न्यायेन पौर्वा- ह्णिकी इति वचनबलात् । पञ्चम्यामपि दानव्रतयोः परदिनानुष्ठानप्राप्तौ तद्व्यावृत्तये हारीतवचने दैवे कर्म- णीत्युच्यते । न च दैवकर्मणि पूर्वाह्णस्य कर्मकालशास्त्र प्राबल्यस्य च वर्णितत्वात् तद्वाधो न युक्त इति शङ्क- नीयम् । विधेर्निषेधस्य वा प्रतिपदोक्तस्य प्रबलतरत्वात् । न च पूर्वदिनपूर्वाह्णस्यात्यन्तकर्मकालत्वं, साकल्यवचना- पादितकर्मकालत्वस्य सद्भावात् । ईदृशमेव विपयमभि- लक्ष्य साकल्यवचनस्य प्रवृत्तत्वात् । स्वाभाविकतिथि- व्याप्तियुक्ते विषये साकल्यवचनस्य निरर्थकत्वात् । तस्मा- द्दैव कर्मणि परविद्धायाः पञ्चम्याः निषेधो न विरुध्यते । नन्वेवमपि पित्र्ये निषेधो निरर्थकः । पित्र्यस्य स्वत एव परविद्धायामप्राप्तत्वात् । मैवं दृष्टान्ततयापि च तदुपन्यासोपपत्तेः । यथा पित्र्यकर्मणि उत्तरविद्धा न ग्राह्या तथा दैवेऽपीति विवक्षया दैवपित्र्ययोः सहो- पन्यासः । ननु व्यासनिगममतयुग्मशास्त्रमुदाहृत्य प- ञ्चम्याः पूर्वविद्धत्वमभिधीयते । आपस्तम्बादयस्तु तद्विप- र्य्ययेण युग्मान्युदाजह्नुः । “प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता । चतुर्थीसहिता या च सा तृतीया फलप्रदा । पञ्चमी च प्रकर्त्तव्या षष्ट्या युक्ता च नारद!” इति । अतएवैतद्युग्मशास्त्रपर्य्यालोचने पञ्चम्याः पर- विद्धत्वं प्राप्नोति । बाढम् अतएवात्र शुक्लकृष्णशास्त्रेण व्यवस्था प्रमक्ता तां निषेद्धुं हारीतेन शुक्लपक्षे तथा ऽसिते इत्युक्तम् । न च सा व्यवस्था वचनेन निषेद्धुमश- क्या, किं हि वचनं न कुर्यान्नास्ति वचनस्यातिभार इति ग्यायात् । तस्माद्धारीतवचनेन पञ्चमी पूर्वविद्धा ग्राह्या । स्कन्दपुराणेऽपि “पञ्चमी च तथा कार्य्या चतुर्थ्या संयुता विभो!” तथा पद्मपुराणभविष्यत्पुराणयोः पूर्वोत्तर विद्धाविषयौ विधिनिषेधौ खर्य्येते । “पञ्चमी घ च- तुर्थ्या तु कार्या षष्ट
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पञ्चमी, स्त्री, (पञ्चानां पाण्डवानां इयम् । अथवा पञ्च पतीन् मिनोति सेवास्नेहादिभिर्बध्नाति या । पञ्च + मी + क्विप् । मीधातुरत्र बन्धार्थः ।) पाण्डवपत्नी । द्रौपदी । इति मेदिनी ॥ (पञ्चानां पूरणी डट् ततो मट् स्त्रियां ङीप् ।) शारि- शृङ्खला । पाशार छक् इति भाषा । इति भूरि- प्रयोगः ॥ * ॥ तिथिविशेषः । सा च चन्द्रस्य पञ्चमकलाक्रियारूपा तदुपलक्षितकालश्च । पञ्जिकाकारसङ्केतेन शुक्लपक्षे ५ कृष्णपक्षे २० एतदङ्कबोधिता ॥ * ॥ अथ पञ्चमीव्यवस्था । सा च चतुर्थीयुता ग्राह्या युग्मात् । “पञ्चमी च प्रकर्त्तव्या चतुर्थीसहिता विभो ! ॥” इति स्कन्दपुराणाच्च ॥ * ॥ [] अथ नागपञ्चमी । यथा, -- देवीपुराणे । “सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने । पूजयेन्मनसादेवीं स्नुहीविटपसंस्थिताम् ॥ पद्मनाभे गते शय्यां देवैः सर्व्वैरनन्तरम् । पञ्चम्यामसिते पक्षे समुत्तिष्ठति पन्नगी ॥” देवैरिति सहार्थे तृतीया । तथा, -- “देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् । पञ्चम्याम्पूजयेन्नागाननन्ताद्यान्महोरगान् । क्षीरं सर्पिस्तु नैवेद्यं देयं सर्व्वविषापहम् ॥” एवं गारुडे तथैव नागानाह । “अनन्तं वासुकिं पद्मं शङ्खं कम्बलमेव च । तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम् ॥ कालीयं तक्षकञ्चैव पिङ्गलं मासि मासि च । यजेत्तानसिते नागान् दष्टमुक्तो दिवं व्रजेत् ॥” पुराणान्तरेऽपि । “अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलिकः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः ॥” पुराणान्तरेऽपि । “शेषः पद्मो महापद्मः कुलीरः शङ्खपालकः । वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः । ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥” अत्र च । “योऽसौ चानन्तरूपेण ब्रह्माण्डं सचराचरम् । पुष्पवद्धारयेन्मूर्द्ध्नि तस्मै नित्यं नमो नमः ॥” इत्यनेन ओंकारपूर्व्वेण मत्स्यपुराणोक्तेनानन्तं पूजयेत् । रत्नाकरे । “पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे । स्वयञ्चापि तदश्नीयाद्ब्राह्मणांश्चैव भोजयेत् ॥” * ॥ अथ श्रीपञ्चमी । भविष्योत्तरे । माघशुक्लपक्ष- मधिकृत्य, -- “चतुर्थी वरदा नाम तस्यां गौरी प्रपूजिता । सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥” सम्बत्सरप्रदीपे । “पञ्चम्यां पूजयेल्लक्ष्मीं पुष्पधूपान्नवारिभिः । मस्याधारं लेखनीञ्च पूजयेन्न लिखेत्ततः ॥ माघे मासि सिते पक्षे पञ्चमी या श्रियः प्रिया । तस्याः पूर्व्वाह्ण एवेह कार्य्यः सारस्वतोत्सवः ॥” इत्युपादानात् श्रियः स्वरसत्याः । तथा च व्याडिः । “लक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु । उपकरणवेशरचनाविधासु च श्रीरितिप्रथिता ॥” ध्यानं यथा, -- “तरुणशकलमिन्दोर्ब्रिभ्रती शुभ्रकान्तिः कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे । निजकरकमलोद्यल्लेखनीपुस्तकश्रीः सकलविभवसिद्ध्व्यै पातु वाग्देवता नः ॥” इति शारदोक्तं ध्यायेत् । पाद्यादिभिः पूजयित्वा । “भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः । वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥” स्वाहेति ब्रह्मपुराणीयेन त्रिः पूजयेत् । मत्स्य- सूक्ते । बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् । सरस्वतीं संपूज्य, -- [] “यथा न देवो भगवान् ब्रह्मा लोकपितामहः । त्वां परित्यज्य सन्तिष्ठेत्तथा भव वरप्रदा ॥ वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् । न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥ लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः । एताभिः पाहि तनुभिरष्टाभिर्म्मां सरस्वति ! ॥” इति मत्स्यपुराणीयैः प्रार्थयेत् ॥ * ॥ अथ पञ्चमीव्रतम् । तच्च शुद्धकाले माघशुक्लपञ्चम्यामारभ्य षड्वर्ष- पर्य्यन्तं प्रतिमासीयशुक्लपञ्चम्यां कार्य्यम् । यथा, -- “क्षीरोदे च पुरा सुप्तं लक्ष्मीसमन्वितं हर
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पंचमी" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें