पण्डापूर्व न० पण्डं फलासाधनमपूर्वम् । वस्तुतः कलसाधना- योग्ये फलानुपहिते १ धर्माधर्मात्मकेऽदृष्टे यथा सन्ध्या- यन्दनादेरभावे दुरदृष्टं जायते सन्ध्यादेर्वन्दने तु तस्यानु- त्पत्त्या फलानुपहितं दुरदृष्टं नश्यतीति तत्पण्डापूर्वमिति प्रीमांसामतसिद्धम् २ फलानापादके अदृष्टभेदे । गुरुभिः कार्यत्वेनापूर्वे एव विधेः शक्तिः स्वीकृता न कलञ्जं भक्षवेदित्यादिनिषेधे कलञ्जभक्षणाभावविषयकं कार्य्य मित्यन्वयवोधश्च स्वीकृतः । तच्चापूर्वं न किञ्चित् फलज- नकमिति स्थितम् । न्यायनये तु पण्डापूर्वं नाङ्गीक्रि- यते सिध्यर्थस्तु इष्टसाधनताज्ञानाघीनकृतिसाध्यत्वमेव इत्यञ्च विश्वजिता यजेत इत्यादौ यत्र फलं न श्रूयते तत्रापि स्वर्गः फलं कल्प्यते यथोक्तं सि० मुक्ता० “नन्वह- रहः सन्ध्यामुमासीतेत्यादौ इष्टानुत्पत्तेः प्रवृत्तिः कथम् न चार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावी वा फल- मिति वाच्यम् तथा सति काम्यत्वे नित्यत्वहान्या- पत्तेः कामनाभावेऽकरणपत्तेश्च इत्थञ्च फलश्रुति- स्तत्रार्थवादमात्रमिति चेन्न ग्रहणश्राद्धादौ नित्यत्व- काम्यत्वयोरप्यविरोधात् । न च कामनाभावेऽकरणा- पत्तिः त्रिकालस्तवपाठादाविव कामनासडावस्यैव [] कल्पनात् । ननु बेदबोधकार्थ्यताज्ञानात् प्रवृत्तिः सम्भ- वतीति चेन्न इष्टसाधनताज्ञानं विना तादृशकार्य्यताज्ञान- सहस्रेणापि प्रवृत्तेरसम्भवात् । यदपि पण्डापूर्वं फल- मिति तदपि न कामनाभावेऽकरणापत्तेस्तौल्यात् । कामनाकल्पने त्वार्थवादिकफलमेव रात्रिसत्रन्यायात् कल्प्यतामन्यथा प्रवृत्त्यनुपपत्तेः । तेन “क्षयं केचिदु- पात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्र- त्यवायस्य मन्वते” । एवम् “सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति व्रह्मलोकमनाम- यम्” एवम् “दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमा- वहन्” इत्यादिकमेव फलमस्तु । न च पितृप्रीतिः कथं फलं व्यधिकरणत्वादिति वाच्यम् । गयाश्राद्धादाविव उद्देश्यत्वसम्बन्धेनैव फलजनकत्वस्य क्वचित् कल्पनात् । अतएवोक्तं “शास्त्रदर्शितफलमनुष्ठातरीत्युत्सर्नः” इति । पितॄणां मुक्तत्वे तु स्वस्य स्वर्गफलं यावन्नित्यनैमित्तिका- नुष्ठानस्य सामान्यतः स्वर्गफलकल्षनात् । पण्डापूर्वार्थ- प्रवृत्तिश्च न सम्भवति । म हि तत्सुखदुःखाभाववत् स्वतः पुरुषार्थः, न वा तत्साधनम् । प्रत्यवायानुत्पत्तौ कथं प्रवृत्तिरिति चेत् । इत्थम् यथा हि नित्यकृते प्रत्यवाया- भावस्तिष्ठति तदभावे तदभावः । एवं प्रत्यवायाभावस्य सत्त्वे दुःसामावसत्त्वं तदभावे तदभाव इति योग- क्षेमसाधारणणरणतया दुःखप्रागभावं प्रत्यपि सुवचत्वात्” ।
📄 मूल मुद्रित पृष्ठ (4203-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।