पञ्चायतनी स्त्री पञ्चानामुपास्यदेवरूपाणामायतनानां समा- हारः । गणेशादिपञ्चदेवरूपोपास्याना समाहारे । पञ्च- देवोपासकस्य यस्मिन् दिने यस्य पूज्यता तस्य तद्दिने मध्ये [] स्थापनमन्येषां च दिग्भेदेषु स्थापनमुक्तं तन्त्रसा० यामले “भवानीन्तु यदा मध्ये ऐशान्यामच्युतं यजेत् । आ- ग्नेय्यां पार्वतीनाथं नैरृत्यां गणनायकम् । वायव्यां तमनं चैव पूजाक्रमौदाहृतः । यदा तु मध्ये गो- विन्दमैशान्यां शङ्करं यजेत् । आग्नेय्यां गणनाथञ्च नैरृत्यां तपनन्तथा । वायव्यामम्बिकां चैव भोगमोक्षैक- भूमिकाम् । शङ्करं च यदा मध्ये ऐशान्यामच्युतं य- जेत् । आग्नेय्यां तपनं चैव नैरृत्यां गणनायकम् । वायव्यां पार्वतीं चैव स्वर्गमोक्षप्रदायिनीम् । आदित्यं च यदा मध्ये ऐशान्यां शङ्करं यजेत् । आग्नेय्यां गण- नाथं च नैरृत्यां केशवं यजेत् । वायव्यामम्बिकां देर्वो स्वर्गसाधनभूमिकाम् । गणनार्थ यदा मध्ये ऐशान्यां क्तेशवं यजेत् । आम्नेय्यामीश्वरं चैव नैरृत्यां तपनन्तथा । वायव्यां पार्वतीं चैव पूजयेन्मोक्षदायिनीम् । स्वस्थान वर्जिता देवा दुःखशीकभयप्रदाः” ।
📄 मूल मुद्रित पृष्ठ (4198-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।