परकीया, स्त्री, (परकीय + टाप् ।) नायिका- भेदः । अस्या लक्षणं यथा । अप्रकटपर- पुरुषानुरागा । सा च द्विविधा । परोढा १ कन्यका च २ । कन्यायाः पित्राद्यधीनतया परकीयत्वम् । अस्या गुप्तैव सकला चेष्टा ॥ * ॥ परोढा यथा, -- “अयं रेवाकुञ्जः कुसुमशरसेवासमुचितः समीरोऽयं वेलादरविलसदेलापरिमलः । इयं प्रावृड्धन्या नवजलदविन्यासचतुरा पराधीनं चेतः सखि ! किमपि कर्त्तुं मृगयते ॥” * गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृ- तीनां परकीयायां एवान्तर्भावः । गुप्ता त्रिविधा । वृत्तसुरतगोपना १ वर्त्तिष्यमाण- सुरतगोपना २ वर्त्तमानसुरतगोपना च ३ । त्रिविधा यथा, -- “श्वश्रूः क्रुध्यतु विद्बिषन्तु सुहृदो निन्दन्तु वा यातर- स्तस्मिन् किन्तु न मन्दिरे सखि ! पुनः स्वापो विधेयो मया । आखोराक्रमणाय कोणकुहरादुत्फालमातन्वती मार्ज्जारी नखरैः खरैः कृतवती कां कां न मे दुर्द्दशाम् ॥” * ॥ [] विदग्धा द्विविधा । वाग्विदग्धा १ क्रियाविदग्धा चेति २ । प्रथमा, -- “निविडतमतमालमल्लिवल्ली- विचकिलराजिविराजितोपकण्ठे । पथिकसमुचितस्तवाद्यतीव्रे सवितरि तत्र सरित्तटे निवासः ॥” द्वितीया यथा, -- “दासाय भवननाथे वदरीमपनेतुमादिशति । हेमन्ते हरिणाक्षी पयसि कुठारं विनिक्षि- पति ॥” * ॥ लक्षिता यथा, -- “यद्भूतं तद्भूतं यद्भूयात्तदपि वा भूयात् । यद्भवतु तद्भवतु वा विफलस्तव गोपनायासः ॥” * कुलटा यथा, -- “एते वारिकणान् किरन्ति पुरुषान् वर्षन्ति नाम्भोधराः शैलाः शाद्बलमुद्बमन्ति न सृजन्त्येते पुनर्नाय- कान् । त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान् धातः ! कातरमालपामि कुलटाहेतोस्त्वया किं कृतम् ॥” अपि च । “पृथ्वी तावत्त्रिकोणा विपुलनदनदीग्रावरुद्धं तदर्द्धं तस्यामेवास्ति शैलो विपिनमपि तथा क्षेत्र- कासारकूपाः । लोकानामर्द्धनारी शिशुरपि जरसः कोऽपि रोगी विवेकी मिथ्यावादो ममायं मुखरमुखवरः पुंश्चली पुंञ्चलीति ॥” * ॥ अनुशयाना त्रिविधा । वर्त्तमानस्थानविघट्टनेन भाविस्थानाभावशङ्कया स्वानधिष्ठितसङ्केतस्थले भत्तगमनानुमानेन प्रत्येकं उदाहरणानि । “समुपागतवति चैत्रे निपतति पत्रे लवङ्गलति- कायाः । सुदृशः कपोलपाली शिव शिव तालीदलद्युतिं लेभे ॥” * ॥ “निद्रालुकेकिमिथुनानि कपोतपोत- व्याधूतनूतनमहीरुहपल्लवानि । तत्रापि तन्वि ! न वनानि कियन्ति सन्ति खिद्यस्व न प्रियतमस्य गृहं प्रयाहि ॥ कर्णकल्पितरसालमञ्जरी- पिञ्जरीकृतकपोलमण्डलः । निष्पतन्नयनवारिधारया राधया मधुरिपुर्निरीक्ष्यते ॥” * ॥ मुदिता यथा, -- “गोष्ठेषु तिष्ठति पतिर्वधिरा ननन्दा नेत्रद्बयस्य न च पाटवमस्ति यातुः । इत्थं निगद्य सुतनुः कुचकुम्भसीम्नि रोमाञ्चकञ्चुकमुदञ्चितमाततान ॥” * ॥ कन्यका यथा, -- [] ‘किञ्चित्कुञ्चितहारयष्टिसरलभ्रूवल्लिसाचिस्मितं प्रान्तभ्रान्तविलोचनद्युतिभुजा पर्य्यस्तकर्णोत्- पलम् । अङ्गुल्या स्फुरदङ्गुलीयकरुचा कर्णस्य कण्डूयनं कुर्व्वाणा नृपकन्यका सुकृतिनं सव्याजमालो- कते ॥” इति रतिमञ्जरी ॥
📄 मूल मुद्रित पृष्ठ (3-048-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।