🕉️ 28 November 2026, Saturday · 02:59:09 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

परिणामशूल
pariṇāmaśūla
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
परिणामशूल संज्ञा पुं॰ [सं॰] एक रोग जिसमें भोजन पचने के समय पेट में पीड़ा होती है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
परि-णाम—शूल n. violent and painful indigestion, Cat.
📄 मूल मुद्रित पृष्ठ (594,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
परिणामशूल न० परिणामे शूलम् । शूलरोगभेदे “स्वै- र्निदानैः प्रकुपितो वायुः सन्निहितो यदा । कफपित्ते समावृत्य शूलकारी भवेद्बली” । तस्य लक्षणं यथा “भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् । तस्य लक्षणमप्येतत् समासेनाभिधीयते” वातिकस्य तस्य स- क्षणं यथा “आध्मानाटोपबिण्मूत्रविवन्धाऽरतिवेपनैः । स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक्” पैत्तिकस्य तस्य लक्षणं यथा “तृष्णादाहारतिस्वेदकष्ट्वम्लवणोत्त- रम् । श्लं शीतशमप्रायं पैत्तिकं लक्षयेद्भिषक्” श्लैष्मि- कस्य तस्य लक्षणं यथा “छर्दिहृल्लाससम्मोहं स्वल्व- रुग्दीर्घ सन्तति । कटुतिक्तोपशान्तौ च तद्बिज्ञेयं कफा- त्मकम्” त्रिदोषजस्य तस्य लक्षणं यथा “संसृष्टलक्षणं बुड्घा द्विदोषं परिकल्पयेत् । त्रिदोगजमसाध्यन्तु क्षीण- मांसबलानलम्” माधबकरः ।
📄 मूल मुद्रित पृष्ठ (4247,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
परिणामशूलः, पुं, (परिणामे चरमावस्थायां शूलं यस्य । यद्वा परिणामे भुक्तान्नादेः परि- पाके उत्पद्यते शूलं यस्मात् ।) रोगविशेषः । तस्योत्पत्तिर्यथा, -- “स्वैर्निदानैः प्रकुपितो वायुः सन्निहिते यदा । कफपित्ते समावृत्य शूलकारी भवेद्बली ॥” तस्य लक्षणं यथा, -- “भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् । तस्य लक्षणमप्येतत् समासेनाभिधीयते ॥” वातिकस्य तस्य लक्षणं यथा, -- “आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः । स्निग्धाष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ॥” पैत्तिकस्य तस्य लक्षणं यथा, -- [] “तृष्णादाहारतिस्वेदकट्वम्ललवणोत्तरम् । शूलं शीतशमग्रायं पैत्तिकं लक्षयेद्भिषक् ॥” श्लैष्मिकस्य तस्य लक्षणं यथा, -- “छर्द्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति । कटुतिक्तोपशान्तौ च तद्विज्ञेयं कफात्मकम् ॥” त्रिदोषजस्य तस्य लक्षणं यथा, -- “संसृष्टलक्षणं बुद्धा द्बिदोषं परिकल्पयेत् । त्रिदोषजमसाध्यन्तु क्षीणमांसबलानलम् ॥” इति माधवकरः । तस्यौषधं यथा, गरुडपुराणे । “लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा । मधुना स्वादितं रुद्र ! परिणामाख्यशूलनुत् ॥” (चिकित्सास्य यथा, -- “वमनं तिक्तमधुरैर्विरेकश्चापि शस्यते । वस्तयश्च हिताः शूले परिणामसमुद्भवे ॥ विडङ्गतण्डुलव्योषं त्रिवृद्दन्तीसचित्रकम् । सर्व्वाण्येतानि संहृत्य श्लक्ष्णचूर्णानि कारयेत् ॥ गुडेन मोदकं कृत्वा भक्षयेत् प्रातरुत्थितः । उष्णोदकानुपानन्तु दद्यादग्निविवर्द्धनम् ॥ जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥ नागरगुडतिलकल्कं पयसा संसाध्य यः पुमा- नद्यात् । उग्यं परिणामशूलं तस्यापैति सप्तरात्रेण ॥” “तिलनागरपथ्यानां भागं शम्बूकभस्मनाम् । द्विभागगुडसंयुक्तं गुडीं कृत्वाक्षभागिकाम् ॥ शीताम्बुपानं पूर्व्वाह्णे भक्षयेत् क्षीरभोजनः । सायाह्ने रसकं पीत्वा नरो मुच्येत दुर्ज्जयात् ॥ परिणामसमुत्थाच्चशूलाच्चिरभवादपि । शम्बूकजं त्र्यूषणञ्च पञ्चैव लवणानि च ॥ समांशां गुडिकां कृत्वा कलम्बीकरसेन वा । प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥ शूलाद्विमुच्यते जन्तुः सहसा परिणामजात् ॥ यः पिबति सप्तरात्रं शक्तूनेकान् कलाययूषेण । स जयति परिणामरुजं चिरजामपि किमुत- नूतनजाम् ॥ लौहचूर्णं वरायुक्तं विलीढं मधुसर्पिषा । परिणामशूलं शमयेत्तन्मलं वा प्रयोजितम् ॥ सामुद्रं सैन्धवं क्षारो रुचकं रौमकं विडम् । दन्ती लौहरजः किट्टं त्रिवृच्छूरणकं समम् ॥ दधिगोमूत्रपयसा मन्दपावकपाचितम् । तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥ जीर्णाजीर्णे तु भुञ्जीत मांसादिघृतसाधितम् । नाभिशूलं प्लीहशूलं यकृद्गुल्मकृतञ्च यत् ॥ विद्रध्यष्ठीलिकं हन्ति कफवातोद्भवन्तथा । शूलानामपि सर्व्वेषामौषधं नास्ति तत् परम् ॥ परिणामसमुत्थस्य विशेषेणान्तकृन्मतम् ॥” इति समुद्राद्यं चूर्णम् ॥ * ॥ “सपिप्पलीगुडं सर्पिः पचेत् क्षीरे चतुर्गुणे । विनिहन्त्यम्लपित्तञ्च शूलञ्च परिणामजम् ॥” इति गुडपिप्पलीघृतम् ॥ * ॥ “क्वाथेन कल्केन च पिप्पलीनां सिद्धं घृतं माक्षिकसंप्रयुक्तम् । [] क्षीरानुपानं विनिहन्त्यवश्यं शूलं प्रवृद्धं परिणामसंज्ञम् ॥” इति पिप्पलीघृतम् ॥ * ॥ “मण्डूरं शोधितं पत्रीं लौहजां वा गुडेन तु । भक्षयम्मुच्यते शूलात् परिणामसमुद्भवात् ॥ संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् । शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा ॥ पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः । विपचेत् सर्व्वमेकैध्यं यावत् पिण्डत्वमागतम् ॥ सिद्धन्तु भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा । वातात्मकं पित्तभवं शूलञ्च परिणामजम् ॥ निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः ॥” इति शतावरीमण्डूरम् ॥ * ॥ इति वैद्यकचक्रपाणिसंग्रहे शूलाधिकारे ॥ “अ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬