परीक्षित्, पुं, (परि सर्व्वतोभावेन क्षीयते हन्यते दुरितं येन । परि + क्षि वधे + क्विप् । कलि- शासनादस्य तथात्वम् । यद्वा, परिक्षीणेषु कुरुषु क्षियति ईष्टे इति । क्षि श ऐश्वर्य्ये + क्विप् । “उपसर्गस्य दीर्घलं क्विप्घञादौ क्वचिद्भवेत् ।” इति वाक्यात् उपसर्गस्य दीर्घत्वम् । अस्य निरुक्तिरुक्ता महाभारते । १ । ९५ । ८४ । “स भगवता वासुदेवेनासंजातबलवीर्य्यपरा- क्रमोऽकालजातोऽस्त्राग्निना दग्धस्तेजसा स्वेन संजीवितः । संजीवयित्वा चैनमुवाच । परि- क्षीणे कुले जातो भवत्वयं परीक्षिन्नामेति ।”) अभिमन्युपुत्त्रः । स युधिष्ठिरादनन्तरं कलि- युगस्यारम्भे राजचक्रवर्त्ती आसीत् । यथा, -- “अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थाम- प्रयुक्तब्रह्मास्त्रेण गर्भ एव भस्मीकृतो भगवतः सकलसुरासुरवन्दितचरणयुगलस्य आत्मेच्छया कारणमानुषरूपधारिणोऽनुभावात् पुनर्जीवित- [] मवाप्य परीक्षिज्जज्ञे । योऽयं साम्प्रतमेतद्भूम- ण्डलमखण्डितायति धर्मेण पालयति ।” इति विष्णुपुराणे ४ अंशे २० अध्यायः ॥ “विपरीतानि दृष्ट्वा च निमित्तानि स पाण्डवः । याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥ प्रयास्यन्ति यदा चैते पूर्व्वाषाढां महर्षयः । तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि । प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥” इति तत्रैव २४ अः । ३८ -- ४० ॥ (अनश्वपुत्त्रः । यथा, महाभारते । १ । ९५ । ४० । “अनश्वा खलु मागधीमुपयेमे अमृतां नाम तस्यामस्य जज्ञे परीक्षित् ॥”)
📄 मूल मुद्रित पृष्ठ (3-069-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।