परूषं, क्ली, (पॄ + ऊषन् ।) फलवृक्षभेदः । परुष- फल इति वङ्गभाषा । फरूसा इति फलूहे इति च हिन्दीभाषा । तत्पर्य्यायः । परूषकम् २ नागदलोपमम् ३ । इति रत्नमाला ॥ परुषम् ४ [] अल्पास्थि ५ परापरम् ६ । इति भावप्रकाशः ॥ नीलचर्म्म ७ गिरिपीलु ८ परावतम् ९ नील- मण्डलम् १० परुः ११ । अस्य गुणाः । अम्ल- त्वम् । कटुत्वम् । कफार्त्तिवातनाशित्वञ्च । तदाम- फलगुणः । पित्तदत्वम् उष्णत्वञ्च । तत्पक्वफल- गुणाः । मधुरत्वम् । रुचिप्रदत्वम् । पित्तशोफ- हरत्वम् । तर्पणत्वञ्च । इति राजनिर्घण्टः ॥ “परूषकं कषायाम्लमामं पित्तकरं लघु । तत् पक्वं मधुरं पाके शीतं विष्टम्भि बृंहणम् ॥ हृद्यं तृट्पित्तदाहास्रज्वरक्षयसमीरहृत् ॥” इति भावप्रकाशः ॥ (“परूषकैटर्य्यकपीलुकानां पियालसिंही करमर्द्दकानाम् । फलानि चैतानि निहन्ति पित्तं हन्याच्च सर्व्वातुरसन्धिवातम् ॥” इति हारीते प्रथमस्थाने दशमेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (3-070-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।