🕉️ 20 November 2026, Friday · 07:09:42 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पर्णनर
parṇanara
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पर्णनर संज्ञा पुं॰ [सं॰] पलास के पत्तों का किसी मृत व्यक्ति का वह पुतला जो उसकी अस्थियाँ न मिलने की दशा में दाहकर्म आदि के लेये बनवाया जाता है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पर्ण—नर m. ‘man of l˚’, an effigy stuffed with l˚ or made of l˚ and burnt as a substitute for a lost corpse, Cat.
📄 मूल मुद्रित पृष्ठ (606,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पर्णनर पु पर्णनिर्मितः नर इव । अख्यलाभे मृतस्य दा- हार्थं पर्णनिमिते नराज्जतौ पुत्तलिकाभेदे तद्विधानं शु० त० उक्तं यथा “अथास्थ्यलाभे पर्णनरदाहः । तत्राश्वलायनमृह्यपरि- शिष्टम् “अस्थिनाशे पलाशानां त्रीणि षष्टिशतानि च । पुरुशप्रतिकृतिं कृत्वा दहेत मन्त्रपूर्वकम् । अशीत्यर्ङ्गन्तु शिरसि ग्रीवायां दश योजयेत् । उरति त्रिं पतं दद्या- द्विंशतिं जठरे तथा । बाहुभ्याञ्च यतं दद्यात् दद्या- दष्ट्वलिभिर्दश । द्वादशार्द्धं वृषणवोरष्टार्द्धं शिश्र एव च । ऊरूभ्याञ्च शतं दद्यात्त्रिंशतं जासुजङ्घयोः । पादाङ्गसिषु च दश एतत् प्रेतस्य लक्षणम् । जर्णा- स्तत्रेण संबेष्ट्य यवपिष्टेन लेपयेत्” । आदिपुराणम् “तदलाभे पलाशोत्यैः पत्नैः कार्य्य १ पुमानपि । शतै- स्त्रिभिस्तश्रा षष्ट्या शरपत्रैर्विधानतः” । तदलाभेऽस्थ्य- लाभे । अत्र षलाशपत्रशरपत्रयोस्तुल्यत्वेनोपादानात् आश्चलायनगृह्येऽपि प्रतिकृतौ शरपत्रस्र लामः । अत्रा- चाराद्योग्यत्वाच्च शरपत्रैः पुत्तलकं कुत्वा शिरःप्रभृतिषु पलाशपत्राणि देयानि ततो वेष्टनमूर्णासूत्रेण, लेपनं बवपिष्टेनेति । अत्राशौचाभ्यन्तरे दाहे शेषाहेन शुद्धिः तदुत्तरपर्णनरदाहे तु त्रिरात्रम् । “एवं वर्णनरं दग्धा त्रिरात्रमशुचिर्भवेत्” इत्यादिपुरणात् । यज्ञ- पार्श्वा “पुत्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन । तद- लामे पत्वाक्षस्य सम्भवे हि पुनःक्रिया” । हि वस्पा- तदलाभेऽस्थ्यसंप्राप्तौ पलाशस्य तत्कृतपुत्तलकस्य दा- [] हक्रिया पुनरपि सम्भवे जाभेऽस्यिदाहक्रिया विहिता तस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाहे त्रिरात्रा थौचे कर्तव्ये न पुनः पिण्डादिदानं वक्ष्यमाणयुक्तेः । “अशौ चानन्तरं चेत् स्याद्दाहः पर्णनरस्य च । त्र्यहा- च्छुद्ध्यन्ति च तथा सन्निकृष्टाः सगोत्रजाः । दर्शे दहेत् “पर्णनरं दहेन्नैव विना दर्शं कथञ्चन । अस्थ्यलाभे तु दर्शेऽपि ततः पर्णनरं दहेत्” इति दीपकलिकायां सुमन्तुवचनात् । दर्शे इत्यत्राष्टम्यामिति कचित् पाठः । श्रष्टमी कृष्णा सन्देहे पितृकर्मणि कृष्णपक्षप्राधान्थे नोक्तेः । “नरं पर्णं दहेत्वैव प्राक् त्रिपक्षात् कव- ञ्चन । त्रिपक्षे तु न वै दह्यात् दर्शे प्राप्ते ह्यनग्निकः” । इत्यशौचव्यपगमे बोध्यम् । यथाह शुद्धिरत्नाकरे यमः “अशौचमध्ये यत्नेन दाहयेदुक्तया वृता । कृणपक्षे पञ्चदश्यामष्टम्यां वा समाहितः । एकादस्यां विशे- षेण ततः प्रभृति सूतकम् । त्रिरात्रं सर्ववर्ष्णनामेप धर्मो व्यवस्थितः ।” कृष्णपक्ष इत्यत्राशौचव्यपगमे वोध्यम् । वायुपुराणे “पर्णनरं दहेन्नैव प्राक् त्रिपक्षात् कथञ्चन । पितृहा मातृहाष्टम्यान्नैव दर्शे दहेत् यदि ।” विष्णुपु० “त्रिपक्षे तु गते पर्णनरं दद्यादनग्निकः । त्रिपक्षाभ्यन्तरे राजन्! नैव पर्णनरं दहेत् । तदूर्द्ध्वन- ष्टमीं प्राप्य दर्शं वापि विचक्षणः ।” दहेदिति ज्ञेयः । “श्रशौचाभ्यन्तरे यदि दाहं न कुर्य्यात् तदा मरणदिना- वधि त्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः” इति हरिदासकर्काचार्य्याः । “पर्श्यं नरं दहेग्नैन विना दर्शं कदाचन । अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेत्” इति दीपकसिकायां सुमन्तुवचनाहर्थे दाहः । शत्राहमीति क्वचित् पाठः । यमः “त्रिपद्वाभ्यन्तरे राजन् । नैव पर्णनरं दहेत् । तदूर्द्ध्वमष्टनीं प्राध दर्शं वापि विचक्षणः” । अष्टमीत्यत्र कृष्टाष्टमीत्यर्थः । पितृकर्मणि कृष्णपक्षप्राधान्येनोक्तेः इति हरिदासत- काचार्य्यलिखनात् । एतच्चाशौचव्यतिरिक्तविषयम्” । अत्र नक्षत्रादिकालभेदः स० घि० पी० उक्तो यथा “शुक्रारार्किषु दर्शभूतमदने नन्दा सुतीक्ष्णोग्रभे पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने । याम्येऽ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पर्णनरः, पुं, (पर्णैः पलाशपत्रैर्निर्म्मितो नरः नरा- कारः पुत्तलकः ।) पित्रादिशवास्थ्यलाभे दाहार्थ- तत्प्रतिनिधीभूतशरपलाशपत्ररचितोर्णातन्तु- वेष्टितयवपिष्टलिप्तनराकारपुत्तलकः । यथा, “आश्वलायनगृह्यपरिशिष्टम् । अस्थिनाशे पलाश- वृन्तानां त्रीणि षष्टिशतानि पुरुषप्रतिकृतिं कृत्वा, अशीत्यर्द्धन्तु शिरसि ग्रीवायां दश योजयेत् । ‘उरसि त्रिंशतं दद्यात् विंशतिं जठरे तथा ॥ बाहुभ्याञ्च शतं दद्यात् दद्यादङ्गुलिभिर्दश । द्वादशार्द्धं वृषणयोरष्टार्द्धं शिश्न एव च ॥ ऊरुभ्यान्तु शतं दद्यात् त्रिंशतं जानुजङ्घयोः । पादाङ्गुलीषु च दश एतत् प्रेतस्य लक्षणम् ॥ ऊर्णासूत्रेण संवेष्ट्य यवपिष्टेन लेपयेत् ॥’ आदिपुराणम् । ‘तदलाभे पलाशोत्थैः पत्रैः कार्य्यः पुमानपि । शतैस्त्रिभिस्तथा षष्ट्या शरपत्रैर्विधानतः ॥’ तदलाभे अस्थ्यलाभे । अत्र पलाशपत्रशरपत्रयोः तुल्यत्वेनोपादानात् आश्वलायनसूत्रेऽपि प्रति- कृतौ शरपत्रस्य लाभः । अत्राचाराद्योग्यत्वाच्च शरपत्रैः पुत्तलकं कृत्वा शिरप्रभृतिषु पलाश- पत्राणि देयानि । ततो वेष्टनं ऊर्णासूत्रेण लेपनं यवपिष्टेनेति । अशौचाभ्यन्तरदाहे शेषाहेन- शुद्धिः । तदुत्तरपर्णनरदाहे तु त्रिरात्रम् । एवं पर्णनरं दग्ध्वा त्रिरात्रमशुचिर्भवेदित्यादि पुरा- णात् । यज्ञपार्श्वः । ‘पुत्त्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन । तदलामे पलाशस्य सम्भवे हि पुनः क्रिया ॥’ [] हि यस्मात्तदलाभे अस्थ्नामप्राप्तौ पलाशस्य तत- कृतपुत्तलकस्य दाहक्रिया । पुनरपि सम्भवे अस्थिलाभे पुनरपि अस्थिदाहक्रिया विहिता तस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाह- त्रिरात्राशौचे कर्त्तव्ये न पुनः पिण्डादिदानं वक्ष्य- माणयुक्तेः । विष्णुः । “त्रिपक्षे तु गते पर्णनरं दह्यादनग्निकः । त्रिपक्षाभ्यन्तरे राजन्नैव पर्णनरं दहेत् ॥ तदूर्द्ध्वमष्टमीं प्राप्य दर्शं वापि विचक्षणः ॥” दहेदिति शेषः । अस्यार्थः । अशौचाभ्यन्तरे यदि पर्णनरदाहं न कुर्य्यात्तदा मरणदिना- वधित्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः । इति हरिदासतर्काचार्य्याः ॥ यादवभट्टोऽप्येवम् । व्यव- हारोऽपि ईदृश एव । ‘पर्णनरं दहेन्नैव विना दर्शं कदाचन । अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेदिति ॥’ दीपकलिकायां सुमन्तुवचनात् दर्शे पर्णनर- दाहः । दर्शमित्यत्राष्टमीमिति क्वचित् पाठः । अत्राष्टमी कृष्णा पितृकर्म्मणि कृष्णपक्षस्य प्राशस्त्योक्तेः ।” इति शुद्धितत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (3-072-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें