🕉️ 21 November 2026, Saturday · 08:42:28 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पवनविजय
pavanavijaya
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पवन—विजय m. ‘victory over the w˚ or breath’, N. of sev. Tantric works.
📄 मूल मुद्रित पृष्ठ (610,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पवनविजय पु० पवनः श्वासवायुर्विजीयतेऽनेन । वि + जि- करणे अच् । देहस्थवायोः श्वासप्रश्वासगतिभेदेन शुभा- शुभसूचके ग्रन्यभेदे तत्प्रकारो गरुडपु० उक्तो यथा “कुजे वह्नी रविः पृथ्वी शौरिरापः प्रकीर्त्तिताः । वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः । गुरुः शुक्र- स्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः । वामनाड्यास्तु मध्य- स्थान् कारयेदात्मनस्तषा । यदाचार इडागुक्तस्तदा [] कर्म समाचरेत् । स्थानसेवां तथा ध्यानं बाणिज्यं राज दर्शनम् । अन्यानि शुभकर्माणि कारयेत प्रयत्नतः । दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः । इनश्चैव तथाप्येवं पापानामुदयो भवेत् । शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् । देहमध्ये स्थिता नाड्यो बहु- रूपाः सुबिस्तराः । नाभेरधस्ताद्यः कन्दो अङ्कुरास्तत्र निर्गताः । द्वासप्ततिसहस्राणि नाभिमध्ये व्यव- स्थिताः । चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराः स्मृताः । तासां तिस्रोमता श्रेष्ठा वामदक्षिणमध्यमाः । वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा । म- ध्यमा च भवेदग्निरूपिणी कालरूपिणी । वामा ह्यमृतरूपा च जगदाप्यायने स्थिता । दक्षिणा रौद्र- भावेन जगच्छोषयते सदा । द्वयोर्वाहे तु मृत्युः स्यात् सर्वकार्य्यविनाशिनी । निर्गमे च भवेद्वामा प्रवेशे द- क्षिणा स्मृता । कारयेत् क्रूरकर्माणि प्राणे पिङ्गल संस्थिते । इडाचारे तथा सौम्यं चन्द्र सूर्यगतस्तथा । यात्रार्या सर्वकार्य्येषु विषापहरणे इडा । भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका । उच्चाटमारणा- द्येषु कर्मस्वेतेषु पिङ्गला । नैथुने चैव संग्रामे मोजने सिद्धिदायिका । शोभनेषु च कार्येषु यात्रायां विषक- र्मणि । शान्तिमुक्त्यर्थसिद्धौ च इडायोज्या नराधिषैः । द्वाभ्याञ्चैव प्रवाहे च क्रूरसौम्यविवर्जने । विषुवतीन्तु जानीयात् संस्मरेत्तु विचक्षणः । सौम्येषु शुभकार्येषु लाभादिजयजीविते । गमनागमने चैव वामा सर्वत्र पूजिता । युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे । प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि । शुभाशुभानि कार्य्याणि लाभालाभौ जयाजयौ । जीवाजीवाय यत् पृच्छेन्न सिध्यति च मध्यमा । वामाचारेऽथ वा दक्षे प्रत्यये यत्र नायकः । तत्रस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः । वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि । तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्कला । वामे वा दक्षिणे बापि यत्र संक्रमते सिरा । धोरे घोराणि कर्माणि सौम्ये वै मध्यमानि च । प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्ववाहिनि । तदा मृत्युं विजानीयात् योगी योगविशारदः । यत्र यत्र स्थितः पृच्छेद्वाम ष्टक्षिणसम्मुखः । तत्र तत्र समं दिश्याद्वातस्योदयनं तदा । अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा । द्वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा । जीवो [] जीवति जीवेन यच्छून्यं तत्स्वरी भवेत् । यत्किञ्चित् कार्य्यमुद्दिष्टं जयादि शुभलक्षणम् । तत्सर्वं पूर्णना- ड्यान्तु जायते निर्विकल्पकम् । अन्यनाड्यादिपर्य्यन्तं पक्ष- त्रयमुदाहृतम् । यावत् षष्ठीं तु पृच्छायां पूर्णायां प्र- थमं जयेत् । रिक्तायान्तु द्वितीयन्तु कथयेत्तदशङ्कितः । वामाचारः समं वायुर्जायते कर्मसिद्धिदः । प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम् । अन्यत्र वामवाहे नु नाम वै विषमाक्षरम् । तदासौ जयमाप्नोति योधः संग्राममध्यतः । दक्षवातप्रवाहे तु यदि नाम समाक्षरम् । जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत् । पिङ्ग- लान्तर्गते प्राणे समानीयाहवञ्जयेत् । यावन्नाड्युदयं चारस्तां दिशं यावदाजयेत् । न जातु जयते सोऽपि नात्र कार्य्या विचारणा । अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् । सा दिशा जयभाप्नोति शून्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें