पश्वाचार पु० पशूनामधिकारिविशेषाणामाचारः । तन्त्रोक्ते आचारभेदे पशुभावे “वेदोक्तेन यजेद्देर्वीं कामसंकल्प पूर्वकम् । स एव वैदिकाचारः पश्वाचारः स उच्यते” । कुब्जिकातन्त्रे ७ प० “भावश्च ऐविधो देवि! दिव्य- वीरपशुक्रमात् । विश्वञ्च देवतारूपं भावयेत् सुरसु- न्दरि! । स्त्रीमयञ्च जगत्सर्वं पुरुषं शिवरूपिणम् । अभेदे चिन्तयेत् यस्तु स एव देवतात्मकः । नित्यस्नानं नित्यदानं त्रिसन्ध्यञ्च जपार्चनम् । निर्मलं वसनं देवि! परिधानं समाचरेत् । वेदशास्त्रे दृढज्ञानं गुरौ देवे तथैव च । मन्त्रे चैव दृढज्ञानं पितृदेवार्चनं तथा । बलिवैश्वं तथा श्राद्धं नित्यकार्यं शुचिस्मिते! । शत्रु मित्रसमं देवि! चिन्तयेत्तु महेश्वरि! । अन्नञ्चैव महे- शानि! सर्वेषां परिवर्जयेत् । गुरोरन्नं महेशानि! भो- क्तव्यं सर्वसिद्धये । कदर्य्यञ्च महेशानि! निष्ठुरं परि- वर्जयेत् । देवतानिन्दकं दृष्ट्वा नालापञ्च समाचरेत् । स- त्यञ्च कथयेद्देवि! न मिय्या च कदाचन” महानिर्वा- णतन्त्रे “दिव्यवीरमयो भावः कलौ नास्ति कदाचन । केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम्” ।
📄 मूल मुद्रित पृष्ठ (4282,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।