पाञ्चभौतिक त्रि० पञ्चभ्यो भूतेभ्य आगतः ठक् द्विपद- वृद्धिः । आकाशादिभूतपञ्चकारब्धे देहादौ “पाञ्चभौ- तिको देह” “चातुर्मौतकमित्येके” “ऐकभौतिकमि- त्यपरे” सा० सू० । “ऐकभौतिकमैकैकिकभौतिकमित्यर्थः तत्र मनुष्यादिशरीरे पार्थिवाधिक्येन पार्थिवता एवं मूर्य्या- दिलोकेषु तैजसाधिक्येन तैजसादिता शरीराणां सुवर्णा- र्दानामिव” भा० । इत्यनेकेषां मतमुक्त्वा ५ अ० स्वयं निर्णयस्तत्रोक्तो यथा “न पाञ्चभौतिकं शरीरं बहूना- मुपादानायोमात्” सा० सू० “बहूनां भिन्नजातीयानां चोपादानत्वं घटपटादिस्थले न दृष्टमिति सजातीयमेवो- पादानम् । इतरच्च भूतचतुष्टयमुपष्टम्भकमित्याशयेन पाञ्चभौतिकत्वव्यवहारः । एकोपादानकत्वेऽपि पृथिव्ये- वोपादानं सर्वशरीरस्य शरीरस्यैकमात्रभूतोपादानकत्वं पूर्वोक्तमनेनैव प्रसङ्गेन विशिष्याह” भा० “सर्वेषु पृथिव्यु- पादानमसाधारण्यात् तद्व्यपदेशः पूर्ववत्” सां० सू० सर्वेषु शरीरेषु पृथिव्ये वोपादानम् असाधारण्यात् आधिक्यादिभिरुत्कर्षात् । अत्राप्रि शरीरे पाञ्चचतु- रादिभौतिकत्वव्यपदेशः पूर्ववत् इन्द्रियाणां भौतिक- त्वबदुपष्टम्भकत्वमात्रेणेत्यर्थः” भा० । अयञ्च सांख्य- पक्षः । वेदान्तिमते तु त्र्यात्मकता कायस्य तच्च काय- शब्दे १९२४ पृष्ठादौ दर्शितं तत्र दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4288,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।