पाण्डुलेख पु० (मुसविदा) ख्याते पूर्वपक्षादिलेश्चनभेदे पाण्डु- लेख्यादयोऽप्यत्र । तत्प्रकारादि वीरमि० उक्तो यथा “अयञ्च पक्षः प्राक्पाण्डुलेख्यं भूमिफलकादौ कारयित्वा शोधितः पश्चात्पत्रे लेखनीयः तथा च वृहस्पतिः “अधिकाँञ्छातयेदर्थान् न्यूनांश्च परिपूरयेत् । भूमौ निवेशयेत्तावद्यावदर्थो विनिश्चितः” शातयेदुद्वपेत् भूमा- विति पाण्डुलेख्ययोग्याधारोपलक्षणम् । अतएवाह स एव “पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम्” इति । स्वभावोक्तन्न भयाद्युपाधिनोक्तम् । व्यासोऽपि “पाण्डु- लेखेन फलके भूमौ वा प्रथमं लिखेत् । ऊनाधिकन्तु संशोध्य पश्चात्पत्रे निवेशयेत्” । शोधनञ्चोत्तरयोग्यावधि विधेयम् न ततःपरमनवस्थापत्तेरदृष्टार्थतापाच्च । तथा च नारदः “शोधयेत्पूर्ववादन्तु यावन्नोत्तरदर्शनम् । अवष्टब्धस्यीत्तरेण निवृत्तं शोधनम्भवेत्” अवष्टब्धस्योत्तर- योग्यस्य । यस्त्वर्य्यप्रगलभत्वात् पक्षदोषगुणहानादानाभ्यां शोधयितुमशक्तस्तस्य वक्तव्यार्थं निर्धार्य्य सभ्यैरेव संशो- धनीयः । यथाह वृहस्पतिः “अभियोक्ताऽप्रगल्भ- त्वाद्वक्तुन्नोत्सहते यदा । सभ्यैस्तु शोधनन्तस्य कार्य्यम- र्थानुरूपतः” इति । यदि भाषामशोधयित्वैवोत्तरन्दाप- यन्ति सभ्यास्तदा रागाल्लोभाद्भयाद्वापीत्याद्युक्तदण्डेन सभ्यान् दण्डयित्वा पुनः पतिज्ञालेखनपूर्वकं व्यवहारः प्रबर्त्तनीयो राज्ञेति तात्पर्य्यम् । यदा त्वर्थिप्रत्यर्थिनो- र्लोखनापाटवाद्राजकीयलेखकद्वारा तौ भाषोत्तरे लेख- यतः । स चान्यतरपक्षपातेनान्यथा लिखत्यन्यत् त राज्ञा चौरवद्दण्ड्य इत्याह कात्यायनः “अन्यदुक्तं लिखेदन्य- द्योऽर्थिप्रत्यर्थिना वचः । चौरवत्त्रासयेत्तन्तु धार्मिणः पृथिवीपतिः” इति ।
📄 मूल मुद्रित पृष्ठ (4296,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।