पाण्डरं, क्ली, (पाण्डरो वर्णोऽस्त्यस्येति । अच् ।) कुन्दपुष्पम् । गैरिकम् । इति शब्दचन्द्रिका ॥
पाण्डरः, पुं, (पाण्डरः शुक्लवर्णोऽस्त्यस्येति । अच् ।) मरुवकवृक्षः । (पडि + अर + दीर्घश्च ।) श्वेतवर्णः । (पर्व्वतविशेषः । स तु मेरोः पश्चिमे वर्त्तते । यथा, मार्कण्डेये । ५५ । १० । “अञ्जनः कुक्कुटः कृष्णः पाण्डरश्चाचलोत्तमः ॥” “पश्चिमेन तथा मेरोर्विस्कम्भात् पश्चिमाद्बहिः । एतेऽचलाः समाख्याताः -- ॥” ऐरावतकुलोत्पन्ननागविशेषः । यथा, महा- भारते । १ । ५७ । ११ -- १२ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मेदः प्रमोदः संहतापनः ॥ ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥” पक्षिविशेषः । यथा, ज्योतिस्तत्त्वधृतवचनम् । [] “गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च । चिल्लश्च धर्म्मचिल्लश्च भासः पाण्डर एव च । गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते ॥”) तद्बर्णविशिष्टे, त्रि । इत्युणादिकोषः ॥ (यथा, हरिवंशे । ८२ । ५० । “असिताम्बरसंवीतं पाण्डरं पाण्डरासनम् ॥”)
📄 मूल मुद्रित पृष्ठ (3-103-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।