🕉️ 19 November 2026, Thursday · 01:02:59 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पानक
pānaka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पानक संज्ञा पुं॰ [सं॰] विशेष क्रिया से बनाया हुआ खट्टा तरल पदार्थ जो पीने के काम में आता है । पना । विशेष—पके नीबू, आम या इमली के रस में पानी और चीनी मिलाकर पना या पानक बनाया जाता है । इसके अतिरिक्त और अनेक पदार्थों का भी बनाया जाता है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पानक m. n. (ifc. f(आ). ) a draught, drink, beverage, potion, MBh.; Kathās.; Suśr.
📄 मूल मुद्रित पृष्ठ (613,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पानकं A drink, beverage, potion.
📄 मूल मुद्रित पृष्ठ (0694-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पानक न० पानार्थं कायति कै--क । अम्लिकानिम्बुरसादि- मिश्रितशर्कराजलादौ कृतान्नशब्दे २१८ पृ० दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (4305,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पानकं, क्ली, (पानाय कायतीति । कै + कः ।) पानद्रव्यविशेषः । तत्प्रकारो यथा, “यथोक्त- परिमितशर्करानिम्बूरसयुक्तोऽथवान्याम्लयुक्तः पक्करसः । इति पाकराजेश्वरः ॥ (यथा, सुश्रुते । १ । ४६ । “पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत् ॥” क्वचित् पुंस्यपि दृश्यते । यथा, तत्रैव । १ । ३९ । “एभिर्लेपान् कषायांश्च तैलं सर्पींषि पान- कान् ॥” तत्राम्रफलपानकम् । यथा, -- “आम्रमामं जलस्विन्नं मर्द्दितं दृढपाणिना । सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् ॥ [] प्रपानकमिदं श्रेष्ठं भीमसेनेन निर्मितम् । सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम् ॥ अपक्वाम्ररसोद्भूतपानकं वातनाशनम् । कफपित्तकरं किञ्चिन् प्रत्यहं यदि सेवितम् ॥” पक्काम्रस्य तु । “सुपक्कमाम्रस्य फलं सुमुष्टिना सम्मर्दितं शर्करया समन्वितम् । एलालवङ्गार्द्रकवासवासितं वर्णान्वितं कस्य न रोचकं भवेत् ॥ पानकं चाम्रसम्भूतं स्वाद्वम्लं गुरुपित्तजित् । सुहृद्यं श्लेष्मकृद्बल्यं वर्ण्यं वृष्यं रुचिप्रपदम् ॥” अम्लिकाफलपानकं यथा, -- “अम्लिकायाः फलं पक्वं मर्द्दितं वारिणा दृढम् । शर्करा मरिचोन्मिश्रं लवङ्गेन्दुसुवासितम् ॥ अम्लिकाफलसम्भूतं पानकं वातनाशनम् । पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधनम् ॥” निम्बुफलपानकं यथा, -- “भागैकनिम्बुजं तोयं षड्भागं शर्करोदकम् । लवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम् ॥ निम्बूफलभवं पानमत्यम्लं वातनाशनम् । वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम् ॥” धान्याकपानकं यथा, -- “शिलायां साधुसम्पिष्टं धान्याकं वस्त्रगालितम् । शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम् ॥ नवीने मृन्मये पात्रे स्थितं पित्तहरं परम् ॥ जम्ब्वाः पानकं यथा, -- “जम्बूफलं स्थूलतरं सुपक्वं सम्मर्द्दितं शर्करयाम्बुनालम् । सुवासितं वेल्लजभृङ्गपत्रे रुचिं विधत्ते विरुचौ जनानाम् ॥ जम्बूफलभवं रुच्यं पानकं कफनाशनम् । कषायं वातकृत् स्तोकं स्वाद्वम्लं ग्राहकं परम् ॥” वीजपूरपानकम् । “मातुलुङ्गरसे योज्यं त्रिगुणं शार्करं जलम् । कर्पूरमरिचोन्मिश्रं पानकं स्यादिदं वरम् ॥ मातुलुङ्गभवं पानं शूलानाञ्च विनाशनम् । श्वासे कासेऽरुचौ वातविड्वन्धेषु च पूजितम् ॥” हेमकिरणन्तु । “शर्करानालिकेलञ्च बीजपूररसप्लुतम् । पटपुतं भवेद्धेमकिरणं नामपानकम् ॥ पानकं हेमकिरणं रुच्यं वृष्यं बलप्रदम् । सुस्निग्धं वातहृच्छुभ्रं किञ्चित् कफकरं गुरु ॥” करमर्द्दपानकं यथा, -- “लवङ्गार्द्रकसंयुक्तं सुपिष्टं वारिणा युतम् । करमर्दं करैर्मर्द्यं सप्तभागसितान्वितम् ॥ वातहृद्रुचिदं भव्यं हृद्यमम्लतरं स्मृतम् । रक्तपित्तकरञ्चोष्णमाकण्ठ्यं कारमर्दितम् ॥” नारङ्गपानकं यथा, -- “सुपक्वनारङ्गफलं निपीडितं संयोजितं शर्करयाति शुभ्रया । सहार्द्रकं चेन्दुकणेन वासितं पानेच्छया केन न संस्तुतक्षणम् ॥” [] नारङ्गफलसम्भूतं पानकं वातनाशनम् । मधुरं विशदं रुच्यं सुस्निग्धं पित्तहृद्दृढम् ॥” चारस्य तु । “चारवृक्षफलजं सशर्करं मर्दितं शिशिरवारिणा दृढम् । ऐलमार्द्रकयुतेन सुवासं भक्तसिक्थमिलितं कृतहासम् ॥ चारस्य फलजं पानं गुरु वृष्यं रुचिप्रदम् । कफपित्तहरं श्रेष्ठं हृद्यं मधुरपाकि च ॥ परुषजीरचुक्रादिद्राक्षादाडिमजं तथा । एकैकं सम्भवं भिन्नं पानकं क्रियते बुधैः ॥ एवमम्लस्य पुष्पस्य फलस्याम्लस्य वा तथा । शर्करामरिचोन्मिश्रं रस्यं स्यात् पानकं वरम् ॥ एवं हि पानकं कार्य्यं सुधिया सुष्ठु यत्कृतम् । गुणा द्रव्यानुसारेण ज्ञातव्याः पानकेषु च ॥” यथास्य गुणाः, -- “श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु । विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणञ्च तत् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “गौडमम्लमनम्लं वा पानकं गुरु मू
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पानक" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें