पानात्यय पु० सुश्रुतोक्ते मद्यपानजे रोगभेदे मद्यख पा- नदोषादिकनिरूपणेन तल्लक्षणादिकं तत्रोक्तं यथा “मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव । रूक्ष- माशुकरञ्चैव व्यवायि च विकाशि च । औष्ण्याच्छीतो- पचारं तत्तैष्ण्याद्धन्ति मनोगतिम् । विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् । मारुतं कीपयेद्रौक्ष्या- दाशुत्वादाशुकर्मकृत् । हर्षदञ्च व्यवायित्वाद्विकाशित्वाद्वि- [] सर्पति । तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् । केचिञ्चवणवर्जांस्तु रसानत्रादिशन्ति हि । स्निग्धै- स्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् । भवेदायुःप्रकर्षाय बलायोपचयाय च । काम्यता मनसस्तुष्टिर्द्धैर्य्यं तेजो- ऽतिविक्रमः । विधिवत्सेव्यमाने तु मद्ये सन्निहिता गुणाः । तदेवानन्नमज्ञेन सेव्यमानममात्रया । काया- ग्निनाह्यग्निशमं समेत्य कुरुते मदम् । मदेन करणा- नान्तु भावान्यत्वे कृते सति । निगूढमपि भावं स्वम्प्र- काशी कुरुतेऽवशः । त्र्यवस्थश्च मदो ज्ञेयः पूर्वो भध्यो- ऽथ पश्चिमः । पूर्वे वीर्य्यरतिप्रीतिहर्षभाष्यादिवर्द्ध- नम् । प्रकापो मध्यमे हर्षो युक्तायुक्तक्रियान्तथां । विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः । श्लैष्मिकान- ल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः । पानं न बाधतेऽत्यर्थं विपरीतांस्तु वाधते । निर्भक्तमेकान्तत एव मद्यं निषे- व्यमाणं मनुजेन नित्यम् । उत्पादयेत् कष्टतमान्विका- रानासादयेच्चापि शरीरभेदम् । क्रुद्धेन भीतेन पिपा- सितेन शोकाभितप्तेन बुभुक्षितेन । व्यायामभाराध्वपरि- क्षतेन वेगावरोधाभिहतेन चापि । अत्यम्लभक्ष्यावततो- दरेण साजीर्णभुक्तेन तथा बलेन । उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् । पानात्ययं परमदम्पानाजीर्णमथापि वा । पानविभ्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम् स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च । स्वेदप्रलापमुख- शोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च । श्ले- षात्मके वमथुशीतकफपसेकाः सर्वात्मके भवति सर्वविका- रसम्बत् । ऊष्मा शरीरगुरुता विरसाननत्वं श्लेष्माधि- कत्वमरुचिर्मलमूत्रभङ्गः । लिङ्गं परस्य तु मदस्य व- दन्ति तज्ज्ञास्तृष्णारुजा शिरसि सन्धिषु चापि भेदः । आध्मानमद्गिरणमम्लरसो विदाहोऽजीर्ण्णस्य पानजनि- तस्य वदन्ति लिङ्गम् । ज्ञेयानि तत्र भिषजा सुविनि- श्चितानि पित्तप्रकोपजनितानि च कारणानि । हृद्गात्र- तोदवमथुज्वरकण्टधूममूर्च्छाकफस्रवणमूर्द्धरुजो विदाहः । द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्य- खिलेन धीराः । हीनोत्तरौष्ठमतिशीतममन्ददाहं तैल- प्रभास्यमतिमानहतं विजह्यात् । जिह्वौष्ठदन्तमसितं त्वथवापि नीलं पीते च यस्य नयने रुधिरप्रभे च । हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं मजन्ते” । परममदपानाजीणेपानविभ्रमा [] अपि तत्रोक्ते मद्यपानजे रोगमेदे तल्लक्षणमत्रैवोक्तम् ।
📄 मूल मुद्रित पृष्ठ (4306-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।