पापात्मन् त्रि० पापयुक्त आत्मा अन्तःकरणं यस्य । पापा- न्विते जीवे “पापात्मा पापसम्भवः” इति पुराणम् । तेषां संसरणप्रकारः पाद्मे क्रियायो० २२ अ० यथा [] “पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् । षडशीति सहस्राणि योजनानि दुरात्मनाम् । प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितस्य च । क्वचित् क्वचित् ज्वल- द्वह्निः सन्तप्तः कर्दमः क्वचित् । क्वचित् क्वचित् द्विज- श्रेष्ठ! सन्तप्तं ताम्रवालुकम् । क्वचित् क्वचित्तीक्ष्णशिलाः क्वचित्रप्तशिलास्तथा । क्वचित् क्वचिच्छस्त्रवृष्टिः क्वचि- दङ्गारवर्षणम् । कुत्रचिद्वह्निवृष्टिश्च कुत्रचित् पङ्कवर्ष- णम् । उष्णाम्बुवर्षणं क्वापि क्वचित् पाषाणवर्षणम् । ज्वलदग्निरिव क्वापि सन्तप्तो वाति मारुतः । गभीरा अ- न्धकूपाश्च तृणावृतमुखा द्विज! । क्वापि कण्टकवृक्षाश्च नाराचसमकण्टकाः । पाषाणश्रेणयः क्वापि दुरा- रोहाः सपन्नगाः । क्वचिद्गाढान्धकाराश्च क्वचित् शोणित कन्दराः । क्वचिद्वीरणवृक्षाश्च क्वचित् काशाः क्वचित् शराः । क्वचित् क्वचिच्छर्कराश्च लेष्टवश्च क्वचित् क्वचित् । क्वचिदस्थ्नां राशयश्च दुर्गन्धा मांसराशयः । क्वचित्- कण्टकराशिश्च शैवालानि क्वचित् क्वचित् । कीलकावलयः क्वापि क्वचिद्व्याघ्रास्तथा शिवाः । खड्गिनः करिणः क्वापि क्वचिदृक्षा भयङ्कराः । एवं बहुविधक्लेशे छाया जलविवर्जिते । तस्मिन्मार्गे द्विजश्रेष्ठ! पापिनो यान्ति दुःखिनः । नग्नाविमुक्तकेषाश्च प्रेताकारभयङ्कराः । गच्छन्ति पापिनस्तत्र शुष्ककण्ठौष्ठतालुकाः” ।
📄 मूल मुद्रित पृष्ठ (4310-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।