पामा, [न्] स्त्री, (पामन् + “मनः ।” ४ । १ । ११ । इति न ङीप् ।) कच्छूः । इत्यमरः । २ । ६ । ५३ ॥ पाँचडा इति भाषा ॥ अस्या औषधं यथा, -- “हरिद्रा हरितालञ्च दूर्व्वागोमूत्रसैन्धवम् । अयं लेपो हन्ति दद्रुं पामानं वै गरं तथा ॥” अपि च । “माहिषं नवनीतञ्च सिन्दूरञ्च मरीचकम् । पामा विलेपिता नश्येत् बहुलापि वृषध्वज ! ॥” अन्यच्च । “मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला । देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥ विशाला करवीरञ्च अर्कक्षीरं सकृत् पलम् । एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥ प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् । मृत्पात्रे लौहपात्रे वा शनैर्मृद्बग्निना पचेत् ॥ पामा विचर्च्चिका चैव दद्रुविस्फोटकानि च । अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥ प्रसूतान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् । चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥” इति गारुडे १९४ । १९८ अध्याययोः ॥
📄 मूल मुद्रित पृष्ठ (3-119-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।