पिच्छिलं, त्रि, (पिच्छा भक्तसम्भूतमण्डं अस्त्य- स्येति । पिच्छादित्वात् इलच् ।) भक्तमण्ड- युक्तम् । इति रायमुकुटः ॥ सरसव्यञ्जनादि । इति भरतः ॥ सूपादि । इति रमानाथः । स्निग्धसूपादि । इति भानुदीक्षितः ॥ मण्ड- युक्तभक्तम् । जलयुक्तव्यञ्जनम् । इति नील- कण्ठः ॥ तत्पर्य्यायः । विजिलम् २ । इत्यमरः । २ । ९ । ४६ ॥ विजयिनम् ३ विजिनम् ४ विज्ज- [] लम् ५ इज्जलम् ६ लालसीकम् ७ । इति वाचस्पतिः ॥ (यथा, छन्दोमञ्जर्य्याम् । “तरुणं सर्षपशाकं नवौदनानि पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥”) पिच्छयुक्तः ॥ (स्निग्धसरसपदार्थविशेषः । पेचल इति भाषा ॥ यथा, साहित्यदर्पणे १० । ५५ । “काले वारिधराणामपतितया नैव शक्यते स्थातुम् । उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः ॥”)
पिच्छिलः, पुं, (पिच्छं चूडास्त्यस्येति । पिच्छादि- त्वात् इलच् ।) श्लेष्मान्तकवृक्षः । इति राज- निर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (3-138-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।