पिष्टपशु पु० पिष्ठमयः पशुः । यज्ञे पशुस्थाने पिष्टमये पशौ तथा हि पिष्टपशुमीमांसायाम् अनिष्टसाधनस्यापि हिंसाया वैदिकमन्त्रद्वारा संस्कारविशेषे जनिते इष्टसा- धनत्वं यथा विषादेरनिष्टसाधनस्यापि वैद्यकोक्तसंस्कारभेदे कृते इष्टसाधनत्वम् । एवञ्च वैद्यकोक्तविषसंस्कारस्य कि- ञ्चिदङ्गवैगुण्ये यथा नेष्टसाधनत्वमेवं वैदिकप्रयोगे मन्त्रा- दीनां यथोक्तस्वरादिवैगुण्येऽपि न हिंसाया इष्टसाधन- त्वम् । विशेषतः सांख्यमते हिंसाया इष्टसाधनत्वेऽपि अनिष्टान्तरसाधनत्वमुररीकृतम् । तथा च वेदोच्चारणादौ सामर्थ्यहीनानामिदानीन्तनानां सुतरां पशुयागादौ पिष्ट- पशुनैव यागो विधेयः न तु साक्षात् पशुनेति व्यवस्था- पितम् । मनुनापि “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथा इत्यनेन कामनारूपासत्तौ पिष्टपशोरेव विधानमु- क्तम् । एतन्न्यायानुसारेणैव भा० आश्व० ९१ अ० “आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथ । सहर्षयो महाराज! बभूवुः कृपयान्विताः । ततो दीनान् पशून् दृष्ट्वा ऋषयस्ते त- पोधनाः । ऊचुः शुक्रं समागम्य नायं यज्ञविधिः शुभः । अपरिज्ञानमेनतत्ते महान्तं धर्ममिच्छतः । न हि यज्ञे पशुगणा विधिदृष्टः पुरन्दर! । धर्मोपधा- तकस्त्वेष समारम्भस्तव प्रभो! । नायं धर्मकृतो यज्ञो न हिसा धमे उच्यये । आगमेनैव ते यज्ञं कुर्वन्तु यदि [] चेच्छसि । विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत् । यज वीजैः सहस्राक्ष! त्रिवर्षपरमोषितैः । एष धर्म्मो महान् शक्र! महागुणफलोदयः” । ४३९२ पृष्ठस्थपुष्यस्नानशब्दात् परत्र परिशिष्टम् ।
📄 मूल मुद्रित पृष्ठ (4548-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।