🕉️ 30 November 2026, Monday · 02:26:49 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पुण्यकव्रत
puṇyakavrata
🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पुण्यक—व्रत n. the worship of Kṛṣṇa for a year with daily presents (to be performed by a woman desirous of a son), BrahmaP.
📄 मूल मुद्रित पृष्ठ (632,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुण्यकव्रतं, क्ली, (पुण्यकं व्रतमिति ।) पतिसौभा- ग्यस्य श्रीकृष्णतुल्यपुत्त्रस्य च जनकः स्त्रीकर्त्तव्य- नियमविशेषः । तस्य विधिर्यथा, -- महादेव उवाच । “हरेराराधनं कृत्वा व्रतं कुरु वरानने ! । व्रतञ्च पुण्यकं नाम वर्षमेकं करिष्यसि ॥ देवि ! शुद्धे च कालेऽत्र परं नियमपूर्व्वकम् । माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये ! ॥ गात्रं सुनिर्म्मलं कृत्वा शिरःसंस्कारपूर्व्वकम् । उपोष्य पूर्व्वदिवसे वस्त्रं प्रक्षाल्य यत्नतः ॥ धौते च वाससी धृत्वा उपविश्यासने शुचौ । आचम्य तिलकं कृत्वा निर्व्वाप्य आह्निकं पुरः ॥ घटस्यारोपणं कृत्वा स्वस्तिवाचनपूर्व्वकम् ॥ पुरोहितस्य वरणं पुरः कृत्वा प्रयत्नतः । संकल्प्य वेदविहितं व्रतमेतत् समाचरेत् ॥ व्रते द्रव्याणि नित्यानि चोपहाराणि षोडश । देयानि नित्यं देवेशि ! कृष्णाय परमात्मने । आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ॥ मधुपर्कश्च स्नानीयं वस्त्राण्याभरणानि च । सुगन्धिपुष्पं धूपश्च दीपनैवेद्यवन्दनम् ॥ यज्ञसूत्रञ्च ताम्बूलं कर्पू रादिसुवासितम् । द्रव्याण्येतानि पूजायाश्चाङ्गरूपाणि सुन्दरि ! ॥ देवि ! किञ्चिद्बिहीनेनैवाङ्गहानिः प्रजायते । अङ्गहीनञ्च यत् कर्म्म चाङ्गहीनो यथा नरः ॥ अङ्गहीने च कार्य्ये च फलहानिः प्रजायते । अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे । देयं प्रतिदिनं दुर्गे ! स्वात्मनो रूपहेतवे ॥ श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम् । प्रदेयं हरये भक्त्या बहुसौन्दर्य्यहेतवे ॥ [] नीलोत्पलानां लक्षञ्च देयं कृष्णाय भक्तितः । व्रताङ्गभूतं देवेशि ! चक्षुषो रूपहेतवे ॥ हिमालयोद्भवं लक्षं रुचिरं श्वेतचामरम् । प्रददौ केशवायैव केशसौन्दर्य्यहेतवे ॥ अमूल्यरत्नरचितं दर्पणानां सहस्रकम् । देयं नारायणायैव नाभिसौन्दर्य्यहेतवे ॥ अमूल्यरत्नरचितं पुटकानां सहस्रकम् । प्रदेयं गोपिकेशाय नासिकारूपहेतवे ॥ बन्धूकपुष्पलक्षञ्च देयं राधेश्वराय च । स्वस्यौष्ठाधरयोश्चैव बहुसौन्दर्य्यहेतवे ॥ मुक्ताफलानां लक्षञ्च दन्तसौर्य्यहेतवे । देयं गोलोकनाथाय शैलजे ! भक्तिपूर्व्वकम् ॥ रत्नगेण्डूकलक्षञ्च गण्डसौन्दर्य्यहेतवे । मदीश्वराय दातव्यं व्रते शैलेन्द्रकन्यके ! ॥ रत्नपाषकलक्षञ्च देयं ब्रह्मेश्वराय च । ओष्ठाधःस्थलरूपाय प्राणेशि ! भक्तितो व्रते ॥ कर्णभूषणलक्षञ्च रत्नसारविनिर्म्मितम् । देयं सर्व्वेश्वरायैव कर्णसौन्दर्य्यहेतवे ॥ माध्वीककलसानाञ्च लक्षं रत्नविनिर्म्मितम् । देयं विश्वेश्वरायैव स्वरसौन्दर्य्यहेतबे ॥ सुधापूर्णञ्च कुम्भानां सहस्रं रत्ननिर्म्मितम् । देयं कृष्णाय देवेशि ! वाक्यसौन्दर्य्यहेतवे ॥ रत्नप्रदीपलक्षञ्च गोपवेशविधायिने । देयं किशोरवेशाय दृष्टिसौन्दर्य्यहेतवे ॥ धुस्तूरकुसुमाकारं रत्नपात्रसहस्रकम् । देयं गोरक्षकायैव गलसौन्दर्य्यहेतवे ॥ सद्रत्नसाररचितं पद्मनालसहस्रकम् । देयं तन्तुकपालाय बाहुसौन्दर्य्यहेतवे ॥ लक्षञ्च रक्तपद्मानां कक्षसौन्दर्य्यहेतवे । देयं गोपाङ्गनेशाय नारायणि ! हरिव्रते ॥ अङ्गुरीयकलक्षञ्च रत्नसारविनिर्म्मितम् । अङ्गुलीनाञ्च रूपार्थं देयं देवेश्वराय च ॥ मणीन्द्रसारलक्षञ्च श्वेतवर्णं मनोहरम् । देयं मुनीन्द्रनाथाय नखसौन्दर्य्यहेतवे ॥ सद्रत्नसारहाराणां लक्षञ्चातिमनोहरम् । देयं मदनमोहाय वक्षःसौन्दर्य्यहेतवे ॥ सुपक्वश्रीफलानाञ्च लक्षञ्च सुमनोहरम् । देयं सिद्धेन्द्रनाथाय स्तनसौन्दर्य्यहेतवे ॥ सद्रत्नवर्त्तुलाकारं लक्षपात्रं मनोहरम् । देयं पद्मालयेशाय देहस्य रूपहेतवे ॥ सद्रत्नसाररचितनाभीनालसहस्रकम् । प्रदेयं पद्मनाभाय नाभिसौन्दर्य्यहेतवे ॥ सद्रत्नसाररचितरथचक्रसहस्रकम् । नितम्बसौन्दर्य्यार्थञ्च प्रदेय
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬