पुरि(री)तत् स्त्री पुरीं देहं तनोति तन--क्विप् । १ देहा- रम्भके (आँत) अन्त्राख्ये नाडीभेदे । पुरि देहे तनोति आच्छादयति हृदयादि अलुक्स० ह्रस्वमध्यः । २ हृदया- च्छादके मांसभेदे यजु० ३९ । ९ दीर्घपाठः अन्यत्र ह्रस्व- पाठः । ३ देहे च “यदा सुप्तो न कञ्चन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततममि- प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते” शत० ब्रा० १४५ । १ । २१ “यस्मिन् काले जाग्रत्स्वप्नयोर्द्रष्टा दर्शन- वृत्ति स्वप्नं हित्वा सुषुप्तः विशेषज्ञानाभावेन सम्प्र- सादस्वस्वरूपं ब्रह्मैक्यं गतो भवति । हृदयं नामो- दरवक्षःप्रदेशयोर्मध्यस्थितः पुण्डरीकाकारो मांस- पिण्डस्तत्परिवेष्टनं पुरीतदित्युच्यते इह पुनस्तदुप- लक्षितं शरीरं पुरीतच्छब्देनाभिप्रेतम् । तथा च हृदयात् पुरीततं शरीरमभिप्रतिष्ठन्त इति कृत्स्नं शरीरं व्याप्नुवन्त्योऽश्वत्थं पर्णराजय इव बहिर्मुखाः अभितो निःसरन्ति । ताभिर्वाडीभिः कृत्वा जाग्रद्- विमयाया बुद्धेः कर्मवशात् पत्यवसर्पणमनु विज्ञानमय आत्मा प्रत्यवसृप्येन्द्रियाण्युपसंहृत्य पुरीतति शेते अग्निवत् तप्तं लोहपिण्डमविशेषेण संव्याप्य वर्त्तते” भा०
📄 मूल मुद्रित पृष्ठ (4371,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।