🕉️ 26 November 2026, Thursday · 05:02:00 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पुरुषकार
puruṣakāra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पुरुषकार संज्ञा पुं॰ [सं॰] पुरुषार्थ । उद्योग । पौरुष ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पुरुष—कार m. human effort (opp. to दैव, fate), Mn.; Yājñ.
manly act, virility, heroism, MBh.; Kāv. &c.
haughtiness, pride, Pat.
N. of a grammarian, Cat.
📄 मूल मुद्रित पृष्ठ (637,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुरुषकार पु० कृ--भावे घञ् ६ त० । पुरुषचेष्टिते पौरुषे दैवात् पुरुषकारस्य प्राधान्यमुक्तं मत्स्यपु० १९५ अ० यथा “स्वमेव कर्म दैवाख्यं बिद्धि देहान्तरार्जितम् । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः । प्रतिकूलन्तथा दैवं षौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थान- शालिनाम् । येमां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम! । पौरुषेण विना तेषां केपाञ्चिद्दृश्यते फलम् । कर्मणा प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् । पौरुषेणाप्यते राजन्! मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौ- रुषवर्जिताः । तस्मात्त्रिकालसंयुक्तं दैवं न सफलं भवेत् । पौरुषं दैवसम्पत्त्या काले फसति पाथिव! । दैवं पुरुपकारश्च कालश्च मनुजोत्तम! । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् । कृषेर्वृष्टिसमायोगाद्- द्वश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैबाकाले कथञ्चन । तस्मात् सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः । एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रुवम् । नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सर्वप्रयत्नेनं पौरुषे यत्नमाचरेत् । त्यक्त्वालसान् दैवपरान् मनुष्या- नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्ना- द्वृणु ते नृपेन्द्र! तस्मात् लदोत्थानवता हि भाव्यम्” ।
📄 मूल मुद्रित पृष्ठ (4378,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुरुषकारः, पुं, (पुरुषस्य कारः करणम् ।) पुरु- षस्य कृतिः । पौरुषम् । चेष्टा । यथा, -- मनुरुवाच । “दैवे पुरुषकारे च किं ज्यायस्तं ब्रवीहि मे । अत्र मे संशयो देव छेत्तुमर्हस्यशेषतः ॥ मत्स्य उवाच । स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलन्तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥ येषां पूर्व्वकृतं कर्म्म सात्त्विकं मनुजोत्तम ! । पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥ कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥ पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥ तस्मात्त्रिकालसंयुक्तं दैवं न सफलं भवेत् । पौरुषं दैवदम्पत्या काले फलति पार्थिव ! ॥ दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ॥ कृषेर्वृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥ तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः । एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रवम् ॥ लालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सर्व्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥ त्यक्त्वालसान् दैवपरान् मनुष्या- नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्बृणुते नृपेन्द्र ! तस्मात् सदोत्थानवता हि भाव्यम् ॥” इति मात्स्ये दैवपुरुषकारको नाम १९५ अध्यायः ॥ (यथा च नीतिशास्त्रे । “यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥”)
📄 मूल मुद्रित पृष्ठ (3-195-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पुरुषकार" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬