🕉️ 24 November 2026, Tuesday · 05:56:15 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पुष्पराग
puṣparāga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पुष्पराग संज्ञा पुं॰ [सं॰] एक मणि । पुखराज ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पुष्प—राग m. ‘f˚-hued’, a topaz, Var.
📄 मूल मुद्रित पृष्ठ (640,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुष्पराग पु० पुष्पस्येव रागो वर्णो यस्य । १ मणिभेदे (पोक- राज) तस्य लक्षणादि युक्तिकल्पतरावुक्तं यथा “सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धञ्च निर्मलमतीव सुवृत्तशीतम् । यः पुष्परागशकलं कलयेदमुष्य पुष्णाति कीर्त्तिमतिर्शार्य्यसुखायुरर्थान्” तस्य दोषलक्षणं यथा “कृष्णविन्द्वङ्कितं रूक्षं घवलं मलिनं लघु । विच्छायं शर्कराकारं पुष्परागं सदोषकम्” । तस्य परीक्षालक्षणे यथा “घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् । न खलु पुष्परागो जात्यतया परीक्षकैरुक्तः” राजनि० । तस्योत्पत्त्यादि यथा “सूत उवाच । पतिता या हिमाद्रौ हि त्वचस्तन्वाः सुरद्विषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्प- रागा महागुणाः । आपीतपाण्डुरुचिरः पाषाणः पुष्परागसंज्ञस्तु । कौरुण्टकनामा स्यात् स एव यदि लोहितापीतः । आलोहितस्तु पीतः स्वच्छः काषा- यकः स एवोक्तः । आनीलशुक्लवर्णः स्निग्धः सोमा लकः स्वगुणैः । अत्यन्तलोहितो यः स एव खलु पद्म- रागः स्यात् सुनीलः सन् । मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्रविदा । धारणफलञ्च तद्वत् किन्तु स्त्रीणां शुमप्रदो भवति” गारुडे ७५ अ० । प्रकारान्तरम् शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः । पुत्रदो घनदः पुण्डः पुष्परागो मणिर्धृतः । दैत्यधातुसमुद्भूतः पुष्परागमणिर्द्विधा । पद्मरागाकरे कश्चित् कश्चित्ता- र्क्ष्योपलाकरे । ईषत्पीतच्छविच्छायं स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति प्राक्तं रङ्गसोममहीभुजा । ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् । छाया चतुर्विधा तस्य सिता पीता सितासिता” । क्लीवत्वमपि ।
📄 मूल मुद्रित पृष्ठ (4391,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पुष्परागः, पुं, (पुष्पस्येव रागो वर्णोऽस्य ।) मणिविशेषः । पुखराज इति भाषा । तत्- पर्य्यायः । मञ्जुमणिः २ वाचस्पतिवल्लभः ३ । इति भावप्रकाशः ॥ पीतः ४ पीतस्फटिकः ५ पीतरक्तः ६ पीताश्म ७ गुरुरत्नम् ८ पीत- मणिः ९ पुष्पराजः १० ॥ (यथा, रघौ । १८ । ३२ । “तस्य प्रभा निर्ज्जितपुष्परागं पौष्यान्तिमौ पुष्यमसूत पत्नी ॥” “प्रभया निर्ज्जितः पुष्परागो मणिविशेषो येन ।” इति तट्टीकायां मल्लिनाथः ॥) अस्य गुणाः । [] अम्लत्वम् । शीतत्वम् । वातनाशित्वम् । दीपन- त्वञ्च ॥ * ॥ तस्य धारणगुणः । आयुःश्रीप्रज्ञा- कारित्वम् ॥ * ॥ तस्य लक्षणं यथा, -- “सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धञ्च निर्म्मलमतीव सुवृत्तशीतम् । यः पुष्परागसकलं कलयेदमुष्य पुष्णाति कीर्त्तिमतिशौर्य्यसुखायुरथान् ॥” * ॥ तस्य कुलक्षणं यथा, -- “कृष्णविन्द्वङ्कितं रूक्षं धवलं मलिनं लघु । विच्छायं शर्करागारं पुष्परागं सदोषकम् ॥” तस्य परीक्षालक्षणे यथा, राजनिर्घण्टे । “घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् । न खलु पुष्परागो जात्यतया परीक्षकैरुक्तः ॥” तस्योत्पत्त्यादि यथा, -- सूत उवाच । “पतिता या हिमाद्रौ हि त्वचस्तस्य सुरद्विषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः ॥ आपीतपाण्डुरुचिरः पाषाणः पुष्परागसंज्ञस्तु । कौरुण्टकनामा स्यात् स एव यदि लोहितापीतः ॥ आलोहितस्तु पीतः स्वच्छः काषायकः स एवोक्तः । आनीलशुक्लवर्णः स्निग्धः सोमालकः स्वगुणैः ॥ अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात् । अपि चेन्द्रनीलसंज्ञः स एवं कथितः सुनीलः सन् ॥ मूल्यं वैदुर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्र- विदा । धारणफलञ्च तद्वत् किन्तु स्त्रीणां सुतप्रदो भवति ॥” इति गारडे ७५ अध्यायः ॥ * ॥ प्रकारान्तरम् । “शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः । पुत्त्रदो धनदः पुण्यः पुष्परागमणिर्धृतः ॥ दैत्यधातुसमुद्भूतः पुष्परागमणिर्द्बिधा । पद्मरागाकरे कश्चित् कश्चित्तार्क्ष्योपलाकरे ॥ ईषत्पीतच्छविच्छायास्वच्छं कान्त्या मनो- हरम् ॥ पुष्परागमिति प्रोक्तं रङ्गसोममहीभुजा ॥ ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् । छाया चतुर्व्विधा तस्य सिता पीता सिता- सिता ॥” इति युक्तिकल्पतरुः ॥
📄 मूल मुद्रित पृष्ठ (3-207-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "पुष्पराग" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬