पुष्यानुग न० चक्रदत्तोक्ते चूर्णभेदे “अम्बष्ठकीमोचरसो समङ्गापद्मकेशरान् । वाह्लीकातिविषामुस्तं विल्वं लोध्रं सगैरिकम् । कट्फलं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम् । कष्ट्वङ्गवत्सकालान्तधातकीमधुकार्जुनम् । पुष्येणीद्धृत्य तुल्यानि श्लञ्जचूर्णानि कारयेत् । तानि क्षौद्रेण संयुज्य पाययेत् तण्डुलाम्बुना । असृग्दरा- तिसारेषु रक्तं यच्चोपवेश्यते । दोषागन्तुकृता ये च बा- लानां तांश्च नाशयेत् । योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम् । स्त्रीणां श्यावारुणं यच्च तत् प्रसह्य निव- र्त्तयेत् । चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्” । ४४२७ पृ० प्रकृतिशब्दस्य परिशिष्टम् राज्ञां पुरोहितादिषु २१ दशसु सुमन्त्रादिषु २२ अष्टासु च यथोक्तं शुक्रनीतिशास्त्रपरिशिष्टे “पुरोधाश्च प्रतिनिधिः प्रधानः सचिवस्तथा । मन्त्री च प्राड्विवाकश्च पण्डितश्च सुमन्त्रकः । अमात्यो दूत इ- त्येता राज्ञः प्रकृतयो दश । दशमांशाधिकाः पूर्वा दू- तान्ताः क्रमशः स्मृताः । अष्टप्रकृतिभिर्युक्तो नृपः कैश्चित् स्मृतः सदा । सुमन्त्रः पण्डितो मन्त्री प्रधानः सचिव- स्तथा । अमात्यः प्राड्विवाकश्च तथा प्रतिनिधिः स्मृतः । एताभृतिसमास्त्वष्टौ राज्ञः प्रकृतयः सदा” । एतेषां लक्षणानि तत्रैवोक्तानि दृश्यानि विस्तरभयान्नोक्तानि ।
📄 मूल मुद्रित पृष्ठ (4548,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।