पूजनी, स्त्री, (पूज्यते इति । पूज + कर्म्मणि ल्युट् । ङीप् ।) चटका । इति भरतः ॥ (ब्रह्मदत्तगृह- स्थितशकुनिविहङ्गमस्त्रीविशेषः । यथा, महा- भारते । १२ । १३९ । ४ -- १० । “शृणुष्व राजन् ! यद्वृत्तं ब्रह्मदत्तनिवेशने । पूजन्या सह संवादं ब्रह्मदत्तस्य भूपतेः ॥ [] काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी । पूजनी नाम शकुनिर्दीर्घकालं सहोषिता ॥ रुतज्ञा सर्व्वभूतानां यथा वे जीवजीवकः । सर्व्वज्ञा सर्व्वतत्त्वज्ञा तिर्य्यग्योनिं गतापि सा ॥ अभिप्रजाता सा तत्र पुत्त्रमेकं सुवर्च्चसम् । समकालञ्च राज्ञोऽपि देव्यां पुत्त्रो व्यजायत ॥ तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा । समुद्रतीरं सा गत्वा आजहार फलद्बयम् ॥ पुष्टार्थञ्च स्वपुत्त्रस्य राजपुत्त्रस्य चैव ह ॥ फलमेकं सुतायादाद्राजपुत्त्राय चापरम् । अमृतास्वादसदृशं बलतेजोऽभिवर्द्धनम् ॥ आदायादाय सैवाशु तयोः प्रादात् पुनःपुनः । ततोऽगच्छत् परां वृद्धिं राजपुत्त्रः फला- शनात् ॥” इत्यादि तत्रैवाध्याये विस्तरशो द्रष्टव्यम् ॥)
📄 मूल मुद्रित पृष्ठ (3-211-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।