पूजाधार पु० ६ त० देवतानां पूजनाधारे जलादौ यथोक्त तन्त्रसारे नारदीये “आपोऽग्निर्हृदयं चक्रं विष्णोः क्षेत्रसमुद्भवम् । यन्त्रञ्च प्रतिमास्थानं अर्चने सर्वदा हरेः” गौतमीये “शालग्रामे मनौ यन्त्रे प्रतिमा- मण्डलेषु वा । नित्यं पूजा हरेः कार्य्या न तु केवल- भूतले । शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् । किं पुनश्चार्चनं तत्र हरिसान्निध्यकारणम् । बहुभि- र्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् । गोष्पदेनैव चिह्नेन तेन जन्म समाप्यते” । एतेन विष्णुपूजायां शिलाया अतिप्राधान्यम् मण्डलादीनान्तु सर्वसाधा- रणत्वात्” योगिनी तन्त्रे “लिङ्गस्थां पूजयेन्देवीं पुस्त- कस्थां तथैव च । मण्डलस्थां महामायां यन्त्रस्थां प्रति- मासु च । जलस्थां वा शिलास्थां वा पूजयेत् परमे- श्वरीम्” । कौलावलीये “यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते । करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठतिः । तत्र देवी वसेन्नित्यं यद्यन्त्रे चण्डिकार्चनम्” । एतत् सर्वं यन्त्राभावे तथा च “यन्त्रं मन्त्रमयं प्रोक्तं मन्त्राणां देवतैव हि । देवात्मनोर्यथाऽभेदो यन्त्रदेवतयोस्तथा । तथा । आदौ लिखेद्यन्त्रराजं देवतायाश्च विग्रहम् । कामक्रोधादिदोषोत्थ सर्वदुःखनियन्त्रणात् । यन्त्रमित्याहुरे तस्मिन् देवः प्रीणाति पूजितः । विना यन्त्रेण पूजायां देवता न प्रसीदति । दुःखनिर्यन्त्रणात् यन्त्रमिताहुस्तन्त्र- वेदिन” ।
📄 मूल मुद्रित पृष्ठ (4394,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।