पूतिका, स्त्री, (पूत्या कायतीति । कै + कः । टाप् ।) मार्जारी । इति राजनिर्घण्टः ॥ [] (कीटविशेषः । यथा, पञ्चतन्त्रे । ३ । ९९ । “पुलका इव धान्येषु पूतिका इव पक्षिषु । मशका इव मर्त्तेषु येषां धर्म्मो न कारणम् ॥”) लताशाकविशेषः । इत्यमरटीकायां भरतः ॥ पुँइ इति भाषा ॥ अस्याः पर्य्यायगुणौ उपोदकीशब्दे द्रष्टव्यौ ॥ द्वादश्यां तद्भक्षणे दोषो यथा । पूतिका ब्रह्मघातिका । यदपि । ‘कुसुम्भं नालिकाशाकं वृन्ताकं पौतिकीन्तथा । भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः ॥’ इत्युशनसा सामान्यतोऽभिहितम् । अत्र नालिका श्वेतकलम्बीति कल्पतरुः । पूतिका च द्वादश्यामधिकदोषाय शूद्रविषयिका वा ।” इति तिथितत्त्वम् ॥ (इयं हि सोमांशुतो जातेति सोमस्यालाभे प्रतिनिधित्वेन ग्राह्या । यथा, महाभारते । ३ । ३५ । ३३ । “अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः । पूतिकामिव सोमस्य तथेदं क्रियतामिति ॥”)
📄 मूल मुद्रित पृष्ठ (3-216-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।