पूर्व(र्ब)राग पु० पूर्बो रागः । नायकयोर्मेलनात् पूर्वजाते अनुरागभेदे “श्रवणाद्दर्शनाद् वापि मिथःसंरूढ रागयोः । दशाविशेषो योऽप्राप्तौ पूर्बरागः स उच्यते । श्रवणन्तु भवेत्तत्र दूतवन्दिसखीमुखात् । इन्द्रजाले च चित्रे च साक्षात् स्वप्ने च दर्शनम् । अभिलाषश्चिन्ता स्मृतिगुणकथनोद्वेगसंप्रलापाश्च । उन्मादोऽथ व्याधि- र्जडता मृतिरिति दशात्र कामदशाः । अभिलाषः स्पृहा चिन्ता प्राप्त्युपार्यादिचिन्तनम् । उन्मादश्चापरिच्छेद- श्चेतनाचेतनेष्वपि । अलक्ष्यवाक् प्रलापः स्यात् चेतसो भ्रमणाद्भृशम् । व्याधिस्तु दीर्घनिःश्वासः पाण्डुताकृश- तादयः । जडता हीनचेष्टत्वमङ्गानां मनसस्तथा । रस- विच्छेदहेतुत्वान्मरणं नैव वर्ण्यते । जातप्रायन्तु तद्वाच्यं चेतसा चापि काङ्क्षितम् । “वर्ण्यतेऽपि यदि प्रत्युज्जी- वनं स्याददूरतः” । “आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः । नीलीकुसुम्भमञ्चिष्ठाः पूर्बरागोऽपि च त्रिधा । न चातिशोभते यन्नापैति प्रेम मनोगतम् । तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः । कुसुम्भ- रागं तं प्राहुर्यदपैति च शोभते । मञ्जिष्ठारागमाहुस्तं यन्नापैत्यतिशोभते” सा० द० ।
📄 मूल मुद्रित पृष्ठ (4410,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।