🕉️ 23 November 2026, Monday · 09:04:36 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

पूर्वरूप
pūrvarūpa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पूर्वरूप संज्ञा पुं॰ [सं॰]
१. पहले का रूप । वह आकार या रंग- ढंग जिसमें कोई वस्तु पहले रही हो । जैसे,—इस पुस्तक का पूर्वरूप ऐसा ही था ।
२. किसी वस्तु का वह चिह्न या लक्षण जो उस वस्तु के उपस्थित होने के पहले ही प्रकट हो । आगमनसूचक लक्षण । आसार । जैसे,—(क) बादलों का घिरना वर्षा का पूर्वरूप है । (ख) आँखों का जलना और अंग टूटना ज्वर का पूर्वरूप है ।
३. व्याकरण मे एक स्वर- संधि का नाम ।
४. एक अर्थालंकार जिसमें विनष्ट व्यक्ति या वस्तु के अपने पहले रूप की प्राप्ति का कथन होता है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पूर्व—रूप n. indication of something approaching, an omen, AV.
something prior or antecedent to, (esp.) the symptom of occurring disease, Car.; Suśr.
the first of two concurrent vowels or consonants (-ता f.), TUp.; Prāt. &c.
(in rhet.) a figure of speech which describes the unexpected return of anything to its former state, Kuval.
पूर्व—रूप mf(आ)n. having the previous form or shape, being as before, Dhūrtas.
📄 मूल मुद्रित पृष्ठ (644,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पूर्व(र्ब)रूप न० कर्म० । अर्थालङ्कारभेदे अलङ्कारशब्दे ४०० पृ० दृश्यम् । भविष्यद्रोगस्य प्राग्जातरूपे तस्य लक्षणविशेषो भाविरोगलणत्वं चोक्तं यथा “प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषे- णानधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथा- यथम् । द्विविधं हि पूर्बरूपं भवति सामान्यं विशिष्टञ्च सामान्यं येन दोषदुष्यसंमूर्च्छनावस्थाजनितेत भावि- सवराद व्याधिमत्रं प्रतीयते न तु वातादिजनित- त्वादिविशेषा । यथा “श्रमोरतिर्विवर्णत्वमिति” । तथा [] बालगुरुवाक्यप्रद्वेषादि । सामान्याभिप्रायेणैव तन्त्रा- न्तर यथा “व्याधेर्जातिर्बुभूषा च पूर्वरूपेण लक्ष्यते । भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु” इति । तथाह पराशरः “पूर्वरूपं नाम येन भाविव्याधिविशेषो लक्ष्यते न तु दोषविशेषः” इति । विशिष्टं यथा उरःक्षता- दौ लिङ्गान्येव वातादिजान्यव्यक्तानि । यदुक्तं तत्रैव “अव्यक्तं लक्षणं तेषां पूर्बरूपमिति स्मृतिः” । तथाह सुश्रुतः “सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् । पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनमिति” । हा- रीतेनाप्युक्तम् “इति पूर्बरूपमष्टानां ज्वाराणां सामान्यतो विशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृदयोद्वेगि वातजमिति” । प्राग्रूपं येन लक्ष्यते इत्यस्यार्थमाह रक्षितः “येन श्रमा- दिना उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छुरामयो रोगः दोषविशेषेण वातादिजन्यासाधारणवेपव्यादिना अनधिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत् प्राग्रूपमिति” । लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह स एव “प्राग्र्प- मित्यनेन पूर्वोक्तेन सम्बन्धि लिङ्गं लक्षणम् अव्यक्तं नात्य- भिव्यक्तं तत्र हेतुरल्पत्वात् नत्वावरणादियोगादव्यक्तत्व- मित्यर्थः । अन्ये तु पूर्वरूपलक्षणमाहुः “स्थानसंश्रियणः क्रुद्धा भाविव्याधिप्रबोधनम् । दोषाः कुर्वन्ति यल्लिङ्गं पूर्वरूपं तदुच्यते” इति । संक्षेपतस्तु लक्षणं भाविव्याधि- बोधकमेव लिङ्गं पूर्वरूपम्” इति माधवकरुविजय- रक्षितौ ।
📄 मूल मुद्रित पृष्ठ (4410-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पूर्व्वरूपं, क्ली, (पूर्व्वं रूपमिति कर्म्मधारयः ।) पूर्व्वलक्षणम् । वैद्यके भाविव्याधिबोधकचिह्रम् । यथा, -- “--प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥” द्विविधं हि पूर्व्वरूपं भवति । सामान्यं विशि- ष्टञ्च । सामान्यं येन दोषदूष्यसंमूर्च्छनावस्था- जनितेन भाविज्वरादिव्याधिमात्रं प्रतीयते न तु वातादिजनितत्वादिविशेषः । यथा । श्रमो रतिर्विवर्णत्वमिति । तथा बालगुरुवाक्यप्रद्वे- ऽषादि । सामान्याभिप्रायेणैव तन्त्रान्तरं यथा । व्याधेर्जातिर्व्वुभूषा च पूर्व्वरूपेण लक्ष्यते । भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु इति ॥ तथाह पराशरः । पूर्व्वरूपं नाम येन भावि- व्याधिविशेषो लक्ष्यते न तु दोषविशेष इति । विशिष्टं यथा । उरःक्षतादौ लिङ्गान्येव वाता- दिजान्यव्यक्तानि । यदुक्तं तत्रैव । अव्यक्तं लक्षणं तेषां पूर्व्वरूपमिति स्मृतमिति । तथाह सुश्रुतः । सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् । पित्तान्नयनयोर्द्दाहः कफान्नान्नाभिनन्दनमिति ॥ हारीतेऽप्युक्तम् । इति पूर्व्वरूपमष्टानां ज्वराणां सामान्यतो विशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृद- योद्वेगि वातजमिति । प्राग्रूपं येन लक्ष्यते इत्य- स्यार्थमाह रक्षितः । येन श्रमादिना उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छरामयो रोगः दोष- विशेषेण वातादिजन्यासाधारणवेपथ्वादिना अन- धिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत्प्राग्रूपमिति । लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह स एव । प्राग्रूपमित्यनेन पूर्व्वोक्तेन सम्बन्धः लिङ्गं लक्ष- णम् अव्यक्तं नात्यभिव्यक्तं तत्र हेतुरल्पत्वात् न त्वावरणादियोगादव्यक्तत्वमित्यर्थः यथायथं यस्य व्याधेर्यद्रूपं तदेवाव्यक्तं तस्य पूर्व्वमित्यर्थः । [] अन्ये तु पूर्व्वरूपलक्षणमाहुः । स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम् । दोषाः कुर्व्वन्ति यल्लिङ्गं पूर्व्वरूपं तदुच्यते ॥ इति ॥ संक्षेपतस्तु लक्षणं भाविव्याधिबोधकमेव लिङ्गं पूर्व्वरूपम् ।” इति माघवकरविजयरक्षितौ ॥
📄 मूल मुद्रित पृष्ठ (3-223-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬