प, पकारः । स तु पञ्चमवर्गस्य प्रथमो व्यञ्जनस्यैक- विंशतितमो वर्णः । अस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (तथा च शिक्षायाम् । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू” ॥ अस्योच्चारणे आभ्यन्तरप्रयत्नः । ओष्ठेन सह जिह्वाग्रस्य स्पर्शः ॥) तत्पर्य्यायः । लोहितः २ पार्श्वः ३ शूरः ४ । इति रुद्रयामले वर्णाभि- धानम् ॥ अस्य तत्त्वं यथा, -- “अतः परं प्रवक्ष्यामि पकाराक्षरमव्ययम् । चतुर्व्वर्गप्रदं वर्णं शरच्चन्द्रसमप्रभम् ॥ पञ्चदेवमयं वर्णं स्वयं परमकुण्डली । पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ॥ त्रिगुणावहितं वर्णमात्मादितत्त्वसंयुतम् । महामोक्षप्रदं वर्णं हृदि भावय पार्व्वति !” ॥ इति कामधेनुतन्त्रे ५ पटलः ॥ (वङ्गभाषायां) अस्य लेखनक्रमो यथा, -- “कुञ्चिता वामरेखायाः कोणाद्दक्षिणतोऽपरा । कुञ्चिता सापि विज्ञेया मात्रा वामोद्गता तथा ॥ शम्भुब्रह्मा भगवती क्रमशस्तासु तिष्ठति” ॥ इति वर्णोद्धारतन्त्रम् ॥ अस्योत्पत्तिप्रकारो यथा, -- “ऋटुरेफषकारञ्च मूर्द्धगो दन्तगस्तथा । ऌतवर्गलसानोष्ठ्यानुपूपध्मानस्रंज्ञकान्” ॥ इति प्रपञ्चसारः ॥ तस्य ध्यानं यथा, -- “विचित्रवसनां देवीं द्विभुजां पङ्कजेक्षणाम् । रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषिताम् ॥ मणिरत्नादिकेयूरहारभूषितविग्रहाम । चतुर्व्वर्गप्रदां नित्यां नित्यानन्दमयीं पराम् ॥ एवं ध्यात्वा पकारन्तु तन्मन्त्रं दशधा जपेत्” ॥ इति वर्णोद्घारतन्त्रम् ॥ * ॥ तस्य नामानि यथा । “पः पूरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा । गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥ तपनः पालनः पाता पद्मरेणुर्निरञ्जनः । सावित्री पातिनी पानं वीरतत्त्वो धनुर्द्धरः ॥ दक्षपार्श्वश्च सेनानी मरीचिः पवनः शनिः । उड्डीशं जयिनी कुम्भोऽलसं रेखा च मोहक ॥ [] मूलाद्वितीयमिन्द्राणी लोकाक्षी मन आत्मनः” ॥ इति नानातन्त्रशास्त्रम् ॥ (अनुबन्धविशेषः । यथा कविकलपद्रुमे । ‘नः स्वादिः पो मुचादिर्मः शमादिर्म्मो णिचीण्णमोः’ । तेन मुच ऌ श प ञौ मोक्ष इत्यस्य लटि मुञ्चति ॥)
पः, पुं, (पातयति वेगेन वृक्षादीन् । पत् + कर्त्तरि डः । अन्तर्णिच् ।) पवनः । (पतति वृक्षात् । पत् + कर्त्तरि डः ।) पर्णम् । (पीयते इति ।) पानम । पाता । इत्येकाक्षरकोषः ॥ (यथा, मनुः । २ । १३९ । “राजस्नातकयोश्चैव स्रातको नृपमानभाक्” ॥)
📄 मूल मुद्रित पृष्ठ (3-001-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।