प्रकरणसम पु० गौतमोक्ते सत्पक्षापरपर्य्याये १ हेत्वाभासभेदे “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरण- समः” गौ० सू० । “क्रमप्राप्तं प्रकरसमं लक्षयति । स हेतुः स्वसाध्यस्य परसाध्याभावस्य वा निर्णयार्थ मपदिष्टः प्रयुक्तः प्रकरणसम उच्यते स क इत्याकाङ्क्षायामाह यस्मात् प्रकरणचिन्तेति करणं “पक्षप्रतिपक्षाविति” भाष्यं [] साध्यतदभावन्ताविति तदर्थस्तथा च निर्ण्णयार्थं हेतुर्यत्र निर्णयं जनयितुमशक्तस्तुल्यबलेन परेण प्रति- बन्धात् किन्तु घर्मिणः साध्यवत्त्वं तदभावत्त्वं वेति चिन्तां जिज्ञासां प्रवर्त्तयति स प्रकरणसमः । यद्वा प्रकृष्टं करणं लिङ्गं परामर्शो वा को हेतुरनयोः साधकः एतयोः कः परामर्शः प्रमेति वा यत्र जिज्ञासा भवती- त्यर्थः । यस्मादित्यादि वस्तुस्थितिमात्रं लक्षणन्तु तुल्य- बलबिरोधिपरामर्शकालीनपरामर्शविषयत्वं स्वसाध्य परामर्शकालीनतुल्यबलविरोधिपरामर्शो वा । विरोधि- गरासर्शस्य च हेतुनिष्ठत्वमेकज्ञानविषयत्वसम्बन्धेन अन्यथा हेतोर्दुष्टत्वं न स्यात् । अयञ्च दशाविशेषे दोषः इत्यतः सद्धेतोरपि विरोधिपरामर्शकाले दुष्टत्वमिष्ट- मेवेत्यवधेयम्” वृत्तिः । २ जातिरूपासदुत्तरभेदे गौ० ५ । १ । १६ । ८८ सू० । “उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः” सू० “उभयसाधर्म्यात् अन्वयसहचाराद्व्यतिरेकसहचाराद्वा प्रक्रिया प्रकर्षेण क्रिया साधनं विपरीतसाधनमिति फलितार्थः तत्सिद्धेस्तस्य पूर्वमेव सिद्धेः तथाचाधि- बलत्वेनारोपितप्रमाणान्तरेण बाधेन प्रत्यवस्थानं प्रकरणसमः यथा शब्दोऽनित्यं कृतकत्वादित्युक्तेनैतदेवं श्रावणत्वेन नित्यत्वसाधकेन बाधात् बाथादेशनाभासा चेयम् । वृ० । “प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुप- पत्तिः प्रतिपक्षोपपत्तेः” सू० । अत्रोत्तरमाह प्रति- पक्षाद्विपरीतसाध्यसाधकत्वे नाभिमताच्छ्रावणत्वादितः प्र- करणसिद्धिद्वारा मदीयसाध्यस्य यः प्रतिषेधः त्वया क्रि- यते तस्यानुपपत्तिः कुतः प्रतिपक्षोपपत्तेः त्वत्पक्षा- पेक्षया प्रतिपक्षस्य मदीयपक्षस्योपपत्तेः साधनात् । अय- माशयः श्रावणत्वेन पूर्वं नित्वत्वस्य साधनाद्यो बाध उच्यते स नोपपद्यते पूर्वं साधितस्य बलवत्त्वाभावात् कदाचित् कृतकत्वेनानित्यत्वस्यापि पूर्वं साधनादिति त्वत्पक्षप्रतिषेधोऽपि स्यात्” वृत्तिः ।
📄 मूल मुद्रित पृष्ठ (4426-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।