🕉️ 19 November 2026, Thursday · 08:38:53 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

प्रणव
praṇava
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
प्रणव संज्ञा पुं॰ [सं॰]
१. ओंकार । ब्रह्मबीज । ओंकार मंत्र ।
२. त्रिदेव (ब्रह्मां, विष्णु, महेश) ।
३. परमेश्वर ।
४. एक प्रकार का मृदंग, पटह या ढोल (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
प्र-णव See प्र-णु.
प्र-˚णव (or प्र-ण्˚), m. f. (ifc. f(आ). ) the mystical or sacred syllable ओम्, VS.; TS.; ŚBr.; Mn. (ifc. also -क) &c. (-त्व n., RāmatUp.)
प्र-˚णव m. a kind of small drum or tabor = (and prob. w.r. for) पणन, L.
📄 मूल मुद्रित पृष्ठ (659,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
प्रणवः 1 The sacred syllable om.; आसन्मिहीक्षितामाद्यः प्रणवश्छंदसामिव R. 1. 11; Ms. 2. 74; [] Ku. 2. 12; Bg. 7. 8. --2 A kind of musical instrument (drum or tabor). --3 An epithet of Viṣṇu or the Supreme Being.
📄 मूल मुद्रित पृष्ठ (0731-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रणव पु० प्रकर्षेण नूयतेऽबेन प्र नु अप् । १ ओङ्कारे वेदादौ षाट्ये शब्दभेदे अमरः । १५५८ पृष्ठादौ दृश्यम् । उद्गा- त्रादीनां गानारम्भात् प्राक् यजमानेन ओमित्युक्त्वा गेये २ सामावयवभेदे च । प्रणूयते प्र + णू--कर्मणि अष्, प्रणवबाच्यत्वाद्वा । ३ परमेश्वरे पु० “प्राणदः प्रणवः पृभृः” “प्राणदः प्रणवः पण” विष्णु स० । द्विधा व्युत्पत्तियोगात् द्वेनामनी ।
📄 मूल मुद्रित पृष्ठ (4435,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रणवः, पुं, (प्रकर्षेण नूयते स्तूयते आत्मा स्वेष्ट- देवता वानेनेति । प्र + णुल स्तुतौ + “ऋदो- रप् ।” ३ । ३ । ५७ । इति अप् । “उपसर्गा- दसमासेऽपि णोपदेशस्य ।” ८ । ४ । १४ । इति णत्वम् । यद्वा, ब्रह्मविष्णुमहेशरूपत्वात् प्रण- म्यते इति । प्र + णम + कर्म्मणि घञ् । संज्ञा- पूर्व्वकत्वात् वृद्ध्यभावः । पृषोदरादित्वात् मस्य वः ।) ओँकारः । इत्यमरः । १ । ६ । ४ ॥ तस्य पर्य्यायो यथा, -- “ओँकारः प्रणवस्तारो वेदादिर्व्वर्त्तुलो ध्रुवः । त्रैगुण्यं त्रिगुणो ब्रह्म सत्यो मन्त्रादिरव्ययः ॥ ब्रह्मबीजं त्रितत्त्वञ्च पञ्चरश्मिस्त्रिदैवतः ॥” इति बीजवर्णाभिधानम् ॥ अपि च । “ओँकारो वर्त्तुलस्तारो वामश्च हंसकारणम् । मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥ सर्व्वजीवोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः । सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥ आदिबीजं वेदसारो वेदबीजमतः परम् । पञ्चरश्मिस्त्रिकूटे च त्रिभवे भवनाशनः ॥ गायत्त्री बीजपञ्चांशौ मन्त्रविद्याप्रसूः पभुः । अक्षरं मातृकासूश्चानादिदैवतमोक्षदौ ॥” इति तन्त्रम् ॥ * ॥ [] (यथा, महानिर्व्वाणतन्त्रे । ३ । ३२ । “अकारेण जगत्पाता संहर्त्ता स्यादुकारतः । मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः ॥” यथा च । “अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेण त्रयो मताः ॥” वेदस्याध्ययनारम्भे अध्ययनसमाप्तौ च ब्राह्म- णस्य ओँकारोच्चारकर्त्तव्यत्वमुक्तं यथा मनौ । २ । ७४ । “ब्राह्मणः प्रणवं कुर्य्यादादावन्ते च सर्व्वदा । स्रवत्यनोङ्कृतं पूर्व्वं परस्ताच्च विशीर्य्यते ॥”) अस्योद्धारक्रमो यथा, -- “एकमेवाद्वयं ब्रह्म मायया तु चतुष्टयम् । रोहिणीतनयो रामः अकाराक्षरसम्भवः ॥ तैजसात्मकप्रद्युम्न उकाराक्षरसम्भवः । प्रज्ञात्मको निरुद्धो वै मकाराक्षरसम्भवः । अर्द्धमात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठि- तम् ॥” इति गोपालतापनीयोपनिषत् ॥ * ॥ स च माङ्गलिकः । यथा, -- “ओँकारश्चाथ शब्दश्च द्वावेतौ ब्राह्मणः पुरा । कण्ठं भित्त्वा विनिर्ज्जातौ तेन माङ्गलिकावुभौ ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ * ॥ अस्य माहात्म्यं यथा, -- “विश्वपादशिरोग्रीवं विश्वेशं विश्वभावनम् । यत्प्राप्तये महापुण्यमोमित्ये काक्षरं जपेत् ॥ तदेवाध्ययनं तस्य स्वरूपं शृण्वतः परम् । अकारश्च तथोकारो मकारश्चाक्षरत्रयम् ॥ एतास्तिस्रः स्मृता मात्राः सात्वराजसतामसाः । निर्गुणा योगिगम्यान्या अर्द्धमात्रा तु सा स्मृता ॥ गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया । पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्द्ध्नि लक्ष्यते ॥ यदा प्रयुक्त ओँकारः प्रतिनिर्य्याति मूर्द्धनि । तदोङ्कारमयो योगी अक्षरे त्वक्षरो भवेत् ॥ प्राणो धनुः शरश्चात्मा ब्रह्म वेध्यमुदाहृतम् । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ओमित्येते त्रयो देवास्त्रयो लोकास्त्रयोऽग्नयः । विष्णुक्रमास्त्रयश्चैव ऋक्सामानि यजूंषि च ॥ मात्राश्चार्द्धञ्चतस्रस्तु विज्ञेयाः परमार्थतः । तत्र युक्तश्च यो योगी स तल्लयमवाप्नुयात् ॥ अकारस्तत्र भूर्लोक उकारश्चोच्यते भुवः । सव्यञ्जनो मकारश्च स्वर्लोकः परिकल्प्यते ॥ व्यक्ता तु प्रथमा मात्रा द्वितीयाव्यक्तसंज्ञिका । मात्रा तृतीया चिच्छक्तिरर्द्धमात्रा परं पदम् ॥ अनेनैव क्रमेणैता विज्ञेया योगभूमयः । ओमित्युच्चारणात् सर्व्वं गृहीतं सदसद्भवेत् ॥ ह्रस्वा तु प्रथमा मात्रा द्बितीया दीर्घसंयुता । तृतीया तु प्लुतार्द्धाख्या वचसः सात्त्वगोचरे ॥ इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् । यस्तं वेद नरः सम्यक् तथा ध्यायति वा पुनः ॥ संसारचक्रमुत्सृज्य त्यक्तत्रिविधबन्धनः । प्राप्नोति ब्रह्मनिलयं परमं परमात्मनि ॥
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "प्रणव" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें