प्रबोधनी स्त्री प्रबोध्यते हरिरत्र प्र + बुध--णिच् आधारे ल्युट् ङीप् । कार्त्तिकशुक्लैकादश्याम् तत्र शयितस्य हरेरुत्था- पनानुकूलव्यापारस्याचरणात्तस्यास्तथात्वम् । उत्थानैका- दशीशब्दे तस्याः खण्डभेदस्य ग्राह्यता दर्शिता । तन्माहात्म्यं च पद्मपु० उ० ख० १२६ अ० उक्तं यथा “ब्रह्मोवाच प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यबर्द्ध- नम् । मुक्तिदं शुद्धबुद्धीनां शृणुष्व मुनिसत्तम! । ता- वद्गर्जन्ति तीर्थानि पुण्यान्यायतनानि च । यावत् प्रबो- धनी विष्णोस्तिथिर्नायाति कार्त्तिके । अश्वमेधसहस्राणि वाजपेयशतानि च । एकेनैवोपवासेन प्रबोधन्यां भवन्ति हि । मेरुमन्दरतुल्यानि पापानि सुबहून्यपि । भस्म० सात् कुरुते मर्त्यो हरिबोधन्युपासनात् । पूर्वजन्मसह- स्रेषु यत्पापं समुपार्जितम् । जागरणं प्रबोधन्यां द- हते तूलराशिवत् । उपवासं प्रबोधन्यां यः करोति समाहितः । विधिवच्च मुनिश्रेष्ठ! यथोक्तं लमते फ लम् । यानि कानि च तीर्थानि त्रैलोक्ये संवसन्ति वै । तानि तस्य गृहे सम्यक् कृता येन प्रवोधनी । किं तस्य बहुभिः पुण्यैः सुरलोकसुखप्रदैः । ऊर्जे सन्तो- षिता येन संपूणां हरिबोधनी । बोधनीं समुपोष्यैव मुक्तिभागी भवेन्नरः । प्रबोधन्यां नरश्रेष्ठ! न पुनर्गर्भ- मादिशेत् । स्नानं दानं जपो होमः समुद्दिश्य जना- र्दनम् । नरैर्यत् क्रियते ऊर्जे प्रबोधन्यां तदक्षयम् । येऽर्चयन्ति नरास्तस्यां भक्त्या विष्णुं जगत्पतिम् । उ- षित्वा वाधनीं ते तु प्रभवेयुर्द्दिवौकसः । महाव्रतमिदं पुत्र! महापापौधनाशनम् । प्रबोधन्यां मुने! विष्णोर्वि- धिवत् समुपोषणम् । स ज्ञानी च स यीगी च स तपस्वी जितेन्द्रियः । स्वर्गमोक्षौ च तस्यास्तां य उपास्ते प्रवो- धनीम् । यत्तु जन्मकृतं पापं स्वल्पं वा यदि वा बहु । करोति भस्मसाद्विष्णुः प्रवोधन्यां प्रपूजितः । हरिपूजा विधातव्या कार्त्तिके बोधवासरे । गीतशास्त्रविनोदेन प्रबोधन्यान्तु जागरात् । चन्द्रसूर्य्योपरागे च यत् फलं परिकीर्त्तितम् । तस्मात् सहस्रगुणितं प्रबोधन्यां हि जागरात् । स्तानं दानं जपो होपः स्वाध्यायश्चार्चनं हरेः । एतस्मात् कोटिगुणितं प्रबोधन्यां हि जागरात्” । स्कान्दे प्रभृति यत्पुण्यं नरेणोपार्जितं भुवि । [] वृथा भवति तत्सर्वं न कृत्वा बोधवासरम्” । “प्रबो- धन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् । मुक्तिदं कृतबुद्धीनां शृणु त्वं मुनिसत्तम! । तावद्गर्जति वि- प्रेन्द्र! गङ्गाभागीरथी क्षितौ । यावन्नायाति पापघ्नी कार्त्तिके हरिबोधनी । तावद्गर्जन्ति तीर्थनि आस- मुद्रसरांसि च । यावत् प्रबोधनी विष्णोस्तिथिर्ना- याति कार्त्तिके । वाजपेयसहस्राणि अश्वमेधशतानि च । एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः । दुर्लभञ्चैव दुष्प्रापं त्रैलोक्ये सचराचरे । तदापि प्रार्थितं विप्र! ददाति हरिबोधनी । ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च सुखसम्पदः । ददात्युपोषिता विप्र! हेलया हरि- बोधनी । मेरुमन्दरतुल्यानि पापान्यत्यूर्जितान्यपि । एकेनैवोपवासेन दहते हरिबोधनी । पृथिव्यां यानि दानानि दत्त्वा यत् फलमाप्नुते । एकेनैवोपवासेन ददाति हरिबोधनी” हरि० वि० ।
📄 मूल मुद्रित पृष्ठ (4473-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।