प्रमथ पु० प्रमथ्नाति प्र + मथ--अच् । १ धृतराष्ट्रपुत्रभेदे भा० आ० ११७ अ० । २ घोटके ३ शिवपारिषदभेदे च शब्दरत्ना० तत्स्वरूपसंख्यादि यथा “नानारूपधरा ये वै जटाचन्द्रार्द्धमण्डिताः । ते सर्वे- सकलैश्वर्य्ययुक्ता ध्यानपरायणाः । योगिनो मदमात्सर्य्य दम्भाहङ्कारवर्जिताः । क्षीणपापा महाभागाः शम्भोः प्रीतिकराः पराः । न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन । संसारविमुखाः सर्बे यतयो यीगतत्पराः । ध्यानावस्थं महादेवं परिवार्य्य धृतव्रताः । कृत्वा परि षदं रुच्या तिष्ठन्ति विगतक्लमाः । यदैव परमं ज्योतिः चिन्तयत्यम्बिकावतिः । तदैव ते पारिषदाः सर्वे सवेष्ट- यन्ति तम् । ते षोडश समाख्याताः कोटयोवै धृतघ्रताः । सिंहव्याघ्रादिसारूव्या अणिमादिसमायुताः । अपरे कामिनः शम्भोः सुनर्म्मसचिवाः स्मृताः । विचित्ररू- पाभरणा जटाचन्द्रार्द्धमण्डिताः । हरस्य तुल्याः रूपेण विशदा वृषभघ्वजाः । उमासदृशरूपाभिः प्रम- दाभिः समागताः । विचित्रमाल्याभरणा दिव्यस्रग्गन्ध भूषणाः । उमाहहायं क्रीडन्तमनुगच्छन्ति भूतिताः । शृङारवेशाभरला अष्टौ ते कोटयो नणाः । अद्धैमारी- श्वराश्चान्ये ह्यर्द्धनारोश्वरं हरम् । अनुयान्ति महा- भागास्तुल्यरूपा हरस्य ये । उमासहायो हि यदा रनते स्म सुण हरः । अर्द्धनारीशरीरास्तु द्वारपाला भवन्ति ते । आकाशमार्शे गच्छन्तमनुगच्छन्ति नित्यशः । ध्यानस्थं परिचर्य्यन्ति सलिलादिभिरीश्चरम । नाना- शस्त्रधराः शम्भीर्गणास्तु प्रमथाः स्मृताः । प्रमथ्नन्ति च युद्धेषु युध्यमानान्महाबलानः ते वे स हावलाः शूराः संख्याता बसुलोटयः । श्वरे ब्रामनास्तालकदङ्गपण- पावाभिः । मृस्यन्ति वाद्यं कुर्वन्तो मावन्ति सत्तुरस्यरम् । नानारूपधरास्ते वै संख्यया कोटयस्त्रिकाः। सततं चा- [] नुनच्छन्ति विचरन्तं महेश्चरम् । सर्वे नायाविनः शूराः सर्वे शास्तार्थपारगाः । सर्वे सर्बत्र सर्वज्ञाः सर्वे सर्वत्रगाः सदा । मुहूर्त्तात् सर्वभुवनं मत्वाऽऽयान्ति पुनःपुनः । अणिमाद्यष्टकैश्वर्व्ययुक्तास्तेवै महावसाः । अपरे रुद्र- नामानो जटाचन्द्रार्द्धमखिताः । देवेन्द्रस्व नियोगेन वर्त्तन्ते त्रिदिवे सदा । तेषां संख्या चैककोटिस्ते सर्वे बलवत्तमाः । कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः । विध्वं सयन्ति पापिष्ठान् धर्मिष्ठान् पालयन्ति च । अनु- गृह्णन्ति सततं धृतपाशुपतव्रतान् । बिघ्नांश्च सततं हन्ति योगिन वयतात्मनाम् । षटत्रिंशत् कोटयश्चैते हरस्य सकला गणाः” कालिका पु० २९ अ० । तेषामुत्पत्ति कथा तत्रैवाध्याये दृश्या । ४ हरीतक्यां स्त्री मेदि० ।
📄 मूल मुद्रित पृष्ठ (4476-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।