प्रसङ्गसम पु० स्थापनाहेतुप्रयोगे प्रतिषेधहेतुरूपजात्युत्तर- भेदे “दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृ- ष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमो” गौ० ५ । १ । ९ “साधनस्यापि गाधनं वक्तव्यमिति प्रसङ्गे प्रत्यवस्थानं प्रसङ्गसमः प्रति- षेधः क्रियाहेतुंगुणयोगी क्रियावाल्लोष्ट इति हेतुर्नो- पदिश्यते । न च हेतुमन्तरेण सिद्धिरस्तीति । दृष्टान्तस्य कारणं प्रमाणं तदनपदेशोऽनभिधानम् अभिधानं चान- तिप्रयोजनकं तथा च दृष्टान्तस्य साध्यवंत्त्वे प्रमाणाभा- णाभावात् प्रत्यवस्थानमर्थः । यद्यपीदं सदुत्तरमेव तथापि दृष्टान्ते प्रमाणं वाच्यं तत्रापि प्रमाणान्तरमित्यनवस्थया प्रत्यवस्थाने तात्पर्य्यं तदुक्तमाचार्य्यैरनवस्थाभासप्रसङ्गः प्रसङ्गसम इति एतन्मते हेतोर्हेत्वन्तरमित्यनवस्थाऽपि प्रसङ्गसम एव पूर्वमते तु हेत्वनवस्थादिकं वक्ष्यमाणाकृ- तिगणेष्वन्तर्भूतमिति विशेषः । अनवस्थादेशनाभासा चेयं प्रतिदृष्टान्तसमः प्रत्येतव्यः” वृत्तिः । अस्योत्तरं तत्रोक्तम् । प्रदोपादावप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः” गौ० सू० “इदं तावदयं पृष्टो वक्तुमर्हति अथ के प्रदीपमुपाददते कि- मर्थं वेति दिदृक्षमाणाः दृश्यदर्शनार्थमिति । अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान्नोपाददते अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः तत्र प्रदोपदर्शनार्थं प्रदोपो- पादानं निरर्थकम् । अथ दृथान्तः स किमर्थसुच्यत इति । अपज्ञातस्य ज्ञापनार्थमिति अथ दृष्टान्ते कारणा- पदेशः किमर्थं दृश्यते यदि प्रज्ञापनार्थम् प्रज्ञातो दृष्टान्तः स खलु लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धि- साम्यं त दृष्टान्त इति तत्प्रज्ञानार्वृः कारणापदेशो [] निरर्थक इति प्रसङ्गसमस्योत्तरम्” । प्रसङ्गसमे प्रत्यु- त्तरमाह । दृष्टान्तो हि निदर्शनस्थानत्वेनसाध्यनिश्च- यार्थमपेक्ष्यते न तु दृष्टान्तदृष्टान्ताद्यनवस्थितपरम्परा लोकसिद्धा युक्तिसिद्धा वा अन्यथा घटादिप्रत्यक्षार्य प्रदीप इव प्रदीपप्रत्ययार्थमनवस्थितप्रदीपपरम्परा प्रस- ज्येत तदीयसाधन्मपि व्याहन्येत” वात्स्या० ।
📄 मूल मुद्रित पृष्ठ (4496-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।