🕉️ 28 November 2026, Saturday · 03:49:52 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

प्रेतपक्ष
pretapakṣa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
प्रेतपक्ष १ संज्ञा पुं॰ [सं॰] चांद्र आश्विन का कृष्ण पक्ष । पितृपक्ष ।
प्रेतपक्ष २ वि॰ दे॰ पितृपक्ष ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
प्रेत—पक्ष or प्रेत—पक्˚षक, m. = पितृ-प्˚ (q.v.), L.
📄 मूल मुद्रित पृष्ठ (712,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रेतपक्ष पु० प्रेतानां पितॄणां प्रियः पक्षः शा० त० । गौणा- श्विनकृष्णपक्षे अत्र मृतयोः पित्रोः पार्वणविधिना त्रैपुरुषिकं श्राद्धं करणीयं यथाह श्रा० त० शङ्खः “सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्यात् वर्जयित्वा मृताहनि । अमावस्यां क्षयो यस्य प्रेतपक्षेऽथ वा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्वणो विधिः” । त्रयं सम्प्रदानानां त्रयं कुर्य्यात् त्रिभ्यो दद्यादित्यर्थः । मृताहपर्युदस्तत्रिदै- वतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र पितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्ण- पक्षमात्रं कृष्णपक्षसामान्यपरत्वेऽमावास्यापदवैयर्थापत्तेः पितृपक्षं विशेषयति हेमाद्रिमाधवाचार्य्यधृतं नाग- रखण्डम् “नभो वाऽथ नभस्यो वा मलमासो यदा भवेत् । सप्नमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः” । अत्र श्रावणभाद्रयोरन्यतरस्य मलमासत्वे आषाढापेक्षया सप्तमपक्षस्य पितृपक्षत्वात् अत्र मृतस्यैव प्रेतपक्षमृतत्वं न तु मलमासभाद्रकृष्णबक्षे मृतस्य । ततश्च तत्र मृतस्य [] वर्षान्तरेऽश्वयुक्कृष्ण क्षेऽपि तच्छ्राद्धकरणे न पार्वणं किन्त्वेकोद्दिष्टमिति । अत्र पार्वणो विधिः पार्वणेतिकर्त- व्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः । तन्न पूर्यवचनोक्तत्रैपुरषिकस्य मृताहे पर्युदस्तस्य पार्वणोवि- धिरित्यनेन प्रतिप्रसवात् । तस्मात् सदैकोद्दिष्टं त्रैपुरुषिकं न तु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्ध- षोडशम् । प्रत्याव्दिकञ्च शेषेषु पिण्डाः स्युः षडिति स्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यति रेकेण षट्संख्यानियमात् एवममावस्यादिमरणनिमित्तेन प्रातुरपि प्रत्याव्दिकं पार्वणविधिनैव “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्” इति आपस्तम्बवचने अपुत्रा इति विशेषणोपादनात् सपुत्राणां पार्वणाभ्यनु- ज्ञानात् । एतच्च मात्रादित्रितयदैवतं कार्यम् । “मात्रे पितामह्यै प्रपितामह्यै पूर्ववत् व्राह्मणान् भोजयित्वा” इत्यन्वष्टकायां तथादर्शनात् अवसानदिननिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्त्तव्यम् “न योषिद्भ्यः पृथग् दद्यादवसानदिनादृते” । इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात् । एवं सपिण्डीकरणेऽपि । एतच्च मृताहपार्वणं माता- पित्रोरेव । तथा च हेमाद्रिधृतकात्यायनवचनम् “सपि- ण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यभा- तृमातृणामेकोद्दिष्टं सदैव तु” । मातृपदं सपत्नीमातृ- परम् । सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादि- त्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीति न प्र- योज्यं किन्तु सपत्नीमातरित्यादिकम् । एवं साग्नि- कौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् “औरसक्षे- त्रजौ पुत्रौ विधिना पार्वणेन तु । प्रत्यव्दमितरे कुर्युरे- कोद्दिष्टं सुता दश” इति जावालवचनस्य “यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् । प्रार्वणेन विधानेन देयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवा- क्यत्वात् । उशना च “प्रत्यव्दं दर्शवच्छ्राद्धं साग्निः कुर्वीत वै द्विजः । एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः” । अत्र नि० सि० विशेषमाह वृद्धपराशरः “संग्रामे संस्थितानाञ्च प्रेतपक्षे शशि- क्षये । तेषां पार्वणमेवोक्तं क्षयाहेऽपि च सत्तमैः” । “चन्द्र क्षयानाशकंयुगेषु यः प्रेतपक्षे मृतवान् सपिण्डः । मपिमिद्धतानामपि चाव्दिकानि भवन्ति तेषानिह पार्ब- [] णानि” । तथा “भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्रातामु- जस्य च । दैवहीनं तु तत्कु
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
प्रेतपक्षः, पुं, (प्रेतप्रियः पक्षः ।) गौणचान्द्रा- श्विनकृष्णपक्षः । तत्र मृतस्य पार्व्वणविधिना र्सावत्सरिकं श्राद्ध्वं कर्त्तव्यम् । यथा, -- “आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे ॥ तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् ॥ नभा वाथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥” इति । तत्र मृतस्य । “सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥ अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः ॥” इति शङ्खोक्तेन प्रत्याब्दिकं पार्व्वणविधिना कर्त्त- व्यम् । इति मलमासतत्त्वम् ॥ * ॥ तत्र निषिद्ध- दिनेऽपि तिलतर्पणं कर्त्तव्यम् । यथा, स्मृतिः । “तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥” इति च मलमासतत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (3-371-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬