फण, ण निःस्नेहे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) फेणतुः पफणतुः । निःस्नेहः अनायासेनोत्पत्तिः । फणति वाञ्छितं श्रीमताम् । अनायासेन जातम् । अस्यैव ञ्यन्तस्य [] निष्ठायां अनायासकृतं फाण्टं इत्यमरः ॥ अतएव रमानाथोऽपि घटादौ फण गतौ इत्यत्र गतेरन्यत्र । फाणयति जनोऽनायासेन जनयतीत्यर्थ इत्याह । इति दुर्गादासः ॥
फण, मि ण गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) मि, फणयति फाणयति । ण, फेणतुः पफणतुः । इति दुर्गादासः ॥
फणः, त्रि, (फनति विस्तृतिं गच्छतीति । फण + अच् ।) सर्पस्य विस्तृतमस्तकम् । यथा । फटा- यान्तु फणा द्वयोरित्यमरः ॥ शशोर्णं कारणं फणम् । इति क्लीवकाण्डे चन्द्रगोमी ॥ तत्- पर्य्यायः । फणा २ फणम् ३ फटा ४ फटः ५ स्फटः ६ स्फटा ७ । इत्यमरभरतौ ॥ दर्व्वी ८ भोगः ९ स्फुटः १० । इति हेमचन्द्रः । ४ । ३८१ ॥ स्फुटा ११ दर्व्विः १२ फटी १३ । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १२ । ११४ । १५ । “परिवादं ब्रुवाणो हि दुरात्मा वै महाजने । प्रकाशयति दोसांस्तु सर्पः फणमिवोच्छ्रितम् ॥” जत्रूर्द्ध्वस्थमर्म्मविशेषः । यथा, सुश्रुते । ३ । ६ । “जत्रूर्द्ध्वं मर्म्माणि चतस्रो धमन्योऽष्टौ मातृकाः द्वे कृकाटिके द्वे विधुरे द्वौ फणौ द्बावपाङ्गौ द्वावावर्त्तौ द्बावुत्क्षेपौ द्बौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपति- रिति ॥”)
📄 मूल मुद्रित पृष्ठ (3-379-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।