फलकयन्त्र न० सि० शि० उक्ते यन्त्रभेदे यथा “कर्तव्यं चतुरस्रकं सुफलकं खाङ्का ९० ङ्गुलैर्विस्तृतं वि- स्ताराद्द्विगुणा १८० यतं सुगणकेनायाममध्ये तथा । आधारः श्लथशृङ्खलादिघटितः कार्य्या च रेखा तत- स्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरेखोच्यते । लम्बं नवत्य ९० ङ्गुलकैर्विभज्य प्रत्यङ्गुलं तिर्य्यगतः प्रसार्य्य । सूत्राणि तत्रायतसूक्ष्मरेखा जीवाभिधानाः सुधिया वि- धेयाः । आधारतोऽधः खगुणा ३० ङ्गुलेषु ज्यालम्बयोगे सुषिरं च सूक्ष्मम् । इष्टप्रमाणा सुषिरे शलाका क्षे- प्याऽक्षसंज्ञा खलु सा प्रकल्प्या । षष्ट्यङ्गुलच्यासमतश्च रन्ध्रात् कृत्वा सुवृत्तं परिधौ तदङ्क्यम् । षष्ट्या घटीनां मगणांश ३६० कैश्च प्रत्यंशकं चाम्बुपलैश्च दिग्भिः । अग्रे सरन्ध्रा तनुपट्टिकैका षष्ट्यङ्गुला दीर्घतया तथाङ्क्या” मू० । “अत्रादौ धातुमयं श्रीपर्ण्यादिदारुमयं वा फलकं चतु- रस्रं श्लक्ष्णं समं कर्तव्यम् । तच्च नवत्यङ्गुलविस्तारं द्वि- गुण १८० विस्तारदैर्घ्यम् । तत्समीपे दैर्घ्यामध्ये तस्याधारः शिथिलः शृङ्खलादिः कार्यः । आधारे धृतं यन्त्रं यथा लम्बमानं स्यात् तथा धृते फलके आधारादधःसूबामव- लम्बरेखा कार्या । सा च सम्बसंज्ञा । तं लम्बं नव- तिभागं कृत्वा भागे भागे तिर्य्यग्रेस्वा दीर्घा कार्य्या । तिर्य्यकत्वं तु लम्बभवाम्मत्स्यात् । सा रेखा ज्यासंज्ञा ज्ञेया । आधारादधस्त्रिंशदङ्गुलान्तरे या ज्या तस्याः लम्बस्य च सम्पाते सुषिरम् । तत्रेष्टप्रमाणा शलाका क्षेप्या साऽक्षसंज्ञा । तस्माद्रन्ध्रात् त्रिंशदङ्गुलेन कर्क- टकेन वृत्तरेखा कार्या । सा षष्टि ६० घटिकाभिर्भगणां- सकैः खषडग्निसंख्यैः ३६० प्रत्यंशं दशभिर्दशभिः पानी- यफलैश्चाङ्क्या । अथ ताम्रादिमयी वंशशजा काष्ठमयी वा पट्टिका षष्ट्यङ्गुला ६० दीर्घतया तैरेव फलकाङ्गुलैस्तथै- वाङ्किता कार्य्या । सा पट्टिकार्धाङ्गुलविस्तृता । एकस्मि- न्नग्रेऽङ्गुलविस्तृता कुठाराकारा कार्या । तत्र विस्तार- मध्ये छिद्रं कार्यम् । अक्षपोतायाः पट्टिकाया लम्बो- [] परि धृताया एक पार्श्वं यथा लम्बरेखां न जहाति तथा सरन्ध्रा कार्य्येत्यर्थः” सि० शि० व्याख्या प्रमिताक्षरा ।
📄 मूल मुद्रित पृष्ठ (4552-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।