फिरङ्क पु० स्वनामख्याते म्लेच्छदेशे १ रोगविशेषे २ मावप्र० [] तत्र फिरङ्गस्य निरुक्तिमाह । “फिरङ्गसंज्ञके देशे बाहुल्येनैष यद्भवेत् । तस्मात् फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः” । तस्य विप्रकृष्टं निटानमाह गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् । फिरङ्गि- णोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः । व्याधिराग- न्तुजो ह्येष दोषाणामनुसंक्रमः । भवेत्ता लक्षयेत्तेषां लक्षणैर्भिषजां वरः” । फिरङ्गिण्याः प्रसङ्गत इति विशेषार्थम् । रूपमाह “फिरङ्गस्त्रिविवो ज्ञेयो बाह्या- भ्यान्तरतस्तथा । वहिरन्तर्भवश्चापि तेषां लिङ्गानि च ध्र्वम् । तत्र बाह्यः फिरङ्गः स्याद्बिस्फोटसदृशोऽल्परुक् । स्फुटितो व्रणवद्वेद्यः सुखमाध्योऽपि स स्मृतः । सन्धे- श्चाभ्यन्तरः स स्यादुभथोर्लक्षणैर्युतः । कष्टदोऽतिचिर- स्थायी कष्टसाध्यतमश्च सः” । उपद्रवानाह “कार्श्यं बलक्षयो नासाभङ्गो वह्नेश्च मन्दता । अस्थिशोषो- ऽस्थिवक्रत्वं फिरङ्गोपद्रवा अमी । साध्यत्वादिकमाह वहिर्भवो भवेत् साध्यो नूतमो निरुपद्रवः । आभ्य- न्तरस्तु कष्टेन साध्यः स्यादयमामषः । बहिरन्तर्भवो जीर्णः क्षीणस्योपद्रवैर्युतः । बोध्यो व्याणिरसाध्योऽय- मित्यूचुर्मुनयः पुरा” । ततोऽस्त्यर्थे इनि । फिरङ्गिन् तद्देशस्थजने तद्रोगयुते च त्रि० स्त्रियां ङीप् ।
📄 मूल मुद्रित पृष्ठ (4555-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।