ब, बकारः । स च त्रयोविंशव्यञ्जनवर्णः । (पवर्गस्य तृतीयवर्णश्च ।) तस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “उपूपध्मानीयानामोष्ठौ ॥”) तस्य स्वरूपं यथा, कामधेनुतन्त्रे । “बकारं शृणु चार्व्वङ्गि ! चतुर्वर्गप्रदायकम् । शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा ॥ पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा ॥” (वङ्गीयवर्णमालायामस्य स्वरूपमाह ।) “त्रिकोणरूपिणी रेखा विष्ण्वीशब्रह्मरूपिणी । मात्रा शक्तिः परा ज्ञेया ध्यानमस्य प्रचक्षते ॥” अस्य ध्यानं यथा, -- “नीलवर्णां त्रिनयनां नीलाम्बरधरां पराम् । नागहारोज्ज्वलां देवीं द्विभुजां पद्मलोचनाम् ॥ एवं ध्यात्वा बकारन्तु तन्मन्त्रं दशधा जपेत् ॥” तत्प्रणाममन्त्रो यथा, -- “त्रिशक्तिसहितं वर्णं विविधामृतलेपितम् । [] स्वयं कुण्डलिनीं देवीं सततं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः । प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥ पृष्ठवंशो भयामातुः शिखिवाहो युगन्धरः । मुखबिन्दुर्ब्बली घण्टा योद्धा त्रिलोचनप्रियः ॥ क्लेदिनी तापिनी भूमिसुगणिन्द्रवलिप्रियः । सुरभिर्म्मुखविष्णुश्च संहारो वसुधाधिपः ॥ षष्ठापुरं चपेटा च मोदको गगनं प्रति । पूर्व्वाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥” इति नानातन्त्रशास्त्रम् ॥
बः, पुं, वरुणः । कुम्भः । इति शब्दरत्नावली ॥ “बः पुमान् वरुणे सिन्धौ भगे तोये गतेऽपि च । गन्धने तन्तुसन्ताने पुंस्येव वपने स्मृतः ॥” इति मेदिनी । बे, १ ॥ * ॥ तस्य साङ्केतिकनामानि यथा । युगन्धरः १ सुरभिः २ मुखविष्णुः ३ संहारः ४ वसुधा- धिपः ५ । इति बीजवर्णाभिधानम् । भूधरः ६ दशगण्डः ७ । इति रुद्रयामलोक्तबीजाभिधानम् ॥ अपि च । “बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः । प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥ पृष्ठवंशो भयामातुः शिखिवाहो युगन्धरः । मुखबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः । क्लेदिनी तापिनी भूमिसुगणिन्द्रवलिप्रियः । सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः ॥ षष्ठापुरं चपेठा च मोदको गगनं प्रति । पूर्व्वाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥” इति तन्त्रान्तरम् ॥
📄 मूल मुद्रित पृष्ठ (3-387-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।