ब(व)णिक्, [ज्] पुं, (पणते क्रयविक्रयादिना व्यव- हरतीति । पण + “पणेरादेश्च बः ।” उणा० २ । ७० । इति इजिः पस्य च बः ।) क्रय- विक्रयकर्त्ता । बाणिज्यकारकः । तत्पर्य्यायः । वैदेहकः २ सार्थवाहः ३ नैगमः ४ बणिजः ५ पण्याजीवः ६ आपणिकः ७ क्रयविक्रयिकः ८ । इत्यमरः । २ । ९ । ७८ ॥ वैदेहः ९ विदेहः १० बाणिजः ११ बाणिजिकः १२ क्रायिकः १३ विक्रयिकः १४ । इति भरतादयः ॥ बाणि- जकः १५ बाणिज्यकारः १६ । इति शब्द- रत्नावली ॥ (यथा, माघे । १२ । २६ । “स्थाणौ निषङ्गिण्यनसि क्षणम्पुरः शुशोच लाभाय कृतक्रयो बणिक् ॥”) करणान्तरम् । इति मेदिनी । जे, २६ ॥ वैश्यः । इति राजनिर्घण्टः ॥ (बाणिज्ये अधिकारा- देवास्य तथात्वम् ॥ करणविशेषः । यथा, बृहत्- संहितायाम् । ९९ । ७ । “कृषिबीजगृहाश्रयजानि गरे बणिजिध्रुवकार्य्यबणिग्युतयः ॥”)
ब(व)णिक्, [ज्] स्त्री, (पण्यते व्यवह्रीयते इति । पण + इजि । पस्य बः । अभिधानात् स्त्रीत्वम् ।) बाणिज्यम् । इति मेदिनी । गे, २६ ॥
📄 मूल मुद्रित पृष्ठ (3-390-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।