व(ब)ल्मीकः, पुं, क्ली, (वलते इति । वल संवरणे + “अलीकादयश्च ।” उणा० ४ । २५ । इत्यत्र वलतेर्म्मुमागमश्चेति उज्ज्वलदत्तोक्त्या काकनन्तो [] निपातः ।) उयीकाकृतमृत्तिकास्तूपः । तत्- पर्य्यायः । वामलूरः २ नाकुः ३ । इत्य- मरः ॥ वल्मिकः ४ वाल्मीकः ५ वाल्मीकिः ६ वाल्मिकिः ७ । इति तट्टीकायां भरतः ॥ पुग- लकः ८ शक्रमूर्द्धा ९ कृमिशैलकः १० । इति शब्दरत्नावली ॥ * ॥ (यथा, मेघदूते । १५ । “वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्ड- लस्य ॥”) तन्मृत्तिकया शौचनिषेधो यथा । विष्णुपुरा- णम् । “वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा । शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् । अन्तःप्राण्यवपन्नाञ्च हलोत्खातां न कर्द्द- माम् ॥” इत्याह्रिकाचारतत्त्वम् ॥ * ॥ देवप्रतिष्ठायां स्नानात् पूर्व्वं शिल्पिदोषशान्त्यर्थं तन्मृत्तिकया क्षालनं यथा, -- “वल्मीकमृत्तिकाभिस्तु गोमयेन सुभस्मना । क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये ॥” वल्मीकमृदादिस्नाने मन्त्रविशेषानुपादानात् मन्त्रानादेशे गायत्त्रीति शूलपाणिलिखितात् गायत्त्र्या तत्तन्मूलमन्त्रेण वा स्नानं कारयि- तव्यम् । तया स्नानं यथा, -- “स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि । पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्पिण्डकैरपि ॥ मृत्तिका करिदन्तस्य पर्व्वताश्वखुरस्य च । कुशवल्मीकसम्भूतं मृत्पञ्चकमुदीरितम् ॥” इति देवप्रतिष्ठातत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (4-300-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।